________________
ललितविस्तरासटीका प्रत्यभिज्ञारूपाऽस्ति, त एव ते ऋतवः पुनरागताइति सिद्धं न भवति, परन्तु केवलं सादृश्यस्यैव भानं भवतीति)
पूर्वोक्तप्रतिवस्तूपमारूपदृष्टान्तेन सह दार्टान्तिकयोजना
यथा मृतः सन् , अमृतभावसम्पन्नो न मन्यते-जीवनभावसम्पन्नो न कथ्यते यतः मरणभावेन सहामृतभावस्य विरोधो वर्तते, तथा मुक्ताः (सर्वथा सर्वकर्मरहिता आत्मानः) पुनर्भवे न जायन्ते (नावतरन्ति) यतो मुक्तत्वेन सहपुनर्भवाऽवतारस्य विरोधोऽस्ति, मुक्तत्वा मुक्तत्वयो मिथोऽत्यन्तविरोधभावोऽस्ति, किञ्च मुक्तिः सैव कथ्यते, यत् सर्वथा ( सर्वप्रकारावच्छेदेन ) कषाययोगपरिणतिरूपकर्मबन्धयोग्यतारूपभवाधिकारस्य निवृत्तिः (आत्यन्तिको ध्वंसः) एषैव सत्या मुक्तिरस्ति, मुक्ता एतत्मुक्तिभावेन युक्ता अतो भावतः (वस्तुतः-निश्चयतः) अर्हन्तो भगवन्तस्तीर्णतारकाः सन्तीति सिद्धं-युक्तियुक्तमेवेवं शक्रस्तवस्याष्टाविंशतितमपदस्य व्याख्या समाप्ता ।
शक्रस्तवस्यैकोनत्रिंशत्तमपदस्य व्याख्यारम्भतः पूर्व क्रियमाणाऽवतरणिकाया अवतार:___एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैर्नीत्या अबुद्धादय एवेष्यन्ते, “अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थः” इति वचनाद्, एतद्वयवच्छेदार्थमाह-" बुद्धेभ्यः बोधकेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, स्वसंविदितेन ज्ञानेन, अन्यथा बोधायोगात् , नास्वसंविदिताया बुद्धेरवगमे कश्चिदुपायः.
अनुमानादिबुद्धेरविषयत्वात् , न ज्ञानव्यक्तिर्विषयः, तदा तदसत्त्वात्, न तत्सामान्यं, तदात्मकत्वात् , न च व्यक्त्यग्रहे तद्ग्रह इत्यपि चिन्त्यं,
नार्थप्रत्यक्षता लिङग, यत्प्रत्यक्षपरिछेद्योऽर्थ एवार्थप्रत्यक्षता, प्रत्यक्षकर्मरूपतामापन्नोऽर्थ एव, न चेयमस्य विशिष्टावस्था विशेषणाप्रतीतौ प्रतीयत इति परिभावनोयम् ॥
एवं चेन्द्रियवदज्ञातस्वरूपैवेयं स्वकार्यकारिणीत्यप्ययुक्त
210