________________
ललितविस्तरासटीका
अर्थात्-मृतः-द्रव्यप्राणैवियुक्तः, व्यतीतः, (अतीतः)अमृतभावेन-जीवनभावेन न भवतीति नियमो वर्त्तते यतः मरणभावस्य विरोधोऽस्ति, मरणामरणयोरात्यन्तिको विरोधोऽस्ति, यत्र मरण तत्रामरणं नास्ति, यत्राऽमरणं तत्र मरणं नास्त्येव, परस्परं मरणामरणयोरात्यन्तिकविरोधः, यत्र मरणमस्ति तत्र पूर्वकालीनजीवनरूपममरणं नास्ति, पूर्वकालीनमरणामरणयो मध्ये विरोधः, मृतःसन् पूर्वकालीनामृतजीवनभावेन पुनर्जीवितवान् न भवति.
एतेन-मृतेऽमृतभावस्य प्रतिषेधेन, 'ऋत्वावर्त्तनिदर्शनं' प्रत्युक्तं-निराकृतं, ऋतु यंतीतः परिवर्त्तते पुनः, इति दृष्टान्तः खण्डितः, यतः तत्र न्यायः युक्तिः, अनुपपन्न:-अयुक्तो भवति,
ऋत्वावर्त्तदृष्टान्ते न्यायस्याघटमानत्वं दर्श्यते
व्यतीतस्य वसन्तादेः ऋतोरावृत्तौ-पुनर्भवने अर्थात् , एत एवर्तवः पुनः पुनः परिवर्तन्ते इति मान्यतायां, अतीतवसन्तादिऋतुरूपकारणजन्येन सहकारिवृक्षविशेषाणां, अङ्कुरादिरूपावस्थाभावेन च पुरुषस्य बालकुमारादिरूपाऽवस्थाभावेन (प्राप्त्या ) परिणामान्तरस्य-अवस्थाऽन्तरस्याभावात् स एव प्राक्परिणामः (पूर्वावस्था) प्राप्नोति नाऽपरः (अतीत-वर्तमानभविष्यत्कालीनेषु, ऋतुषु यदा भेदो नास्ति तदा वृक्षा दौवा पुरुषादौ दृश्यमाना, भिन्नभिन्नावस्था अथवा अनुभूयमानाः परिणामाः भासन्ते, एते, न प्रतिभासनीयाः, भूतकालीनतुना निर्मितवृक्षादौ अकरादिकावस्था तथा पुरुषे बालकुमारावस्थाऽसीत् , तेषां साऽवस्था, वर्तमानकालीनेन वा भविष्यत्कालीनेन, ऋतुना प्राप्ता भवेद्वा भविष्यति, यत ऋतौ, अर्थात् , कारणे भेदो नास्ति, तर्हि भिन्नभिन्नावस्थायां, अर्थात् कार्य भेदः कथं ? एवं चैकऋतौ वा एतस्या एवेति ऋतोः कल्पनायां, ऋतुः वृक्षादौ वा पुरुषादौ एकैव दशा-एतस्या एषैव दशेति स्रष्टुं न शक्नोति, भिन्नभिन्नदशां न सृजेत् , परन्तु दशानां भेदोऽनुभूयते.
तस्माद् भिन्नाःसर्वे ऋतवः सन्ति, भूतवर्तमानभविष्यत्कालीना ऋतवो भिन्ना आसन्, सन्ति, भविष्यन्ति, एतस्या एषा नास्त्येवमिति न्याय्यम् )
___यदि भिन्नभिन्नाः परिणामा 'भवन्ति एवं मान्यतायां 'व्यतीता ऋतव एत एव एते पुनः पुनरायान्ति' एवं कथनं न्यायरहितं भवति अर्थात् , एकैव दशा एषैवैषा दशा नित्यत्वरहिताऽतः भिन्ना ऋतवः सन्ति, ते च भिन्नभिन्नदशायां निमित्तभूताः सन्ति. (अत्र कालत्रयनियतसहकारादिवृक्षादेरङकुरादि-अवस्थाया जनकत्वत्वसाजात्य-सादृश्यमवलम्ब्यैष दृष्टान्तः प्रसिद्धः, एत एवैते एवर्तवः पुनरागता इति प्रतीतिः सादृश्याऽऽलम्बनकारक
209