________________
ललितविस्तरा-सटीका
न भवन्ति तथा पुनर्भवावतारधारका न भवन्ति यतो वक्ष्यमाणभवावर्तस्य निबन्धनाभावो वत्त ते.
-पुनर्जीवनस्य वा पुनर्भवावतारस्य कारणानि प्रदर्श्य कारणाभावप्रयुक्तकार्याभावरूपविषयस्य पुष्टचर्चा
तथा च जीवितावर्त रूपकार्य (पूर्वानुभूत जीवनस्य पुनः प्राप्ति) प्रति आयुष्कान्तरं (नारकाद्यायुष्यविशेषः) कारणमस्ति, भवावर्त (पुन र्भवावतारं) प्रति भवाधिकारान्तरं कारणमस्ति, यथा-आयुष्कान्तरकारणाभावप्रयुक्तः, जीवितावत रूपकार्य स्याभावो वर्तते। तथा भवाधिकारान्तरकारणाभावप्रयुक्तभवावर्त कार्यस्याभावो वर्तते । यथा नारकादिरूपायुष्कान्तरं (विशेषः) भवेत्तदा पूर्ववत् पुनर्जीवनधारको भवेत, तथा क्षीणस्य (क्षयभावं प्राप्तस्य) भवावर्त कारणरूप (कषाययोगपरिणतिरूपकर्मबन्धयोग्यतारूप)-भवाधिकारादन्यो भवाधिकारो (भवाधिकारान्तरं) भवेत्तदाभवाधिकारान्तरेण संसारेऽस्मिन, तोर्णा-मुक्ताः-सिद्धाः पुनरावृत्ति कुर्यु: । तथा च सर्वप्रकाराणामायुष्कविशेषाणाम भावकून जीवितावतस्य-पुनर्जीवनसामान्यस्याभावो यथा वर्तते तथा ज्ञानावरणीयदर्शनावरणीयादिकर्माष्टकोदयरूप-भवजनक कषाययोगपरिणतिरूपकर्मबन्धयोग्यतारूपभवाधिकारान्तरस्य (विशेषस्य) सर्वथाऽभावेन भवावर्त स्य-संसारे पुनरावृत्तेः सामान्याभावोऽस्ति, यदि नारकादिआयुष्कविशेषरूपायुष्कांतरस्य सत्ता भवेत्तदा सर्वप्रकारक जीवनविशेषक्षयजन्य जीवनसामान्याभावरूपाऽत्यन्तमरणवदसिद्धि भवेत् , तथा भवाधिकारान्तरस्य सत्तायां सकलकर्मविशेषाणां क्षयजन्यमुक्ति-तीर्णताया असिद्धि भवेत, परंतु एतेषु तीर्णात्मसु सर्वप्रकारकजीवनविशेषक्षयजन्यअत्यतमरणस्य सिद्धिरस्ति, अर्थात् , आयुष्कान्तरसाध्यभावरूपेण (जीवनभावेन) जीवनपरिणाम-अवस्था-दशाया अभावोऽस्ति, तथा सकलकर्मविशेषाणां क्षयजन्यमुक्तिः सिद्धिरस्ति, अर्थाद् भवाधिकारान्तर-साध्यभावरूपेण (संसारिभावेन) संसार-भवपरिणति-दशाया अभावोऽस्ति, यतः आये अत्यन्तमरणे आयुष्कान्तरकारणस्याऽभावोऽस्ति, द्वितीये मुक्तौ भवाधिकारांतररूपकारणस्याऽभावोऽस्ति. -तदेव वस्तु प्रतिवस्तुनः (तादृशान्यवस्तुनः) उपमया विचार्यतेनहि मृतः तद्भावेन भवति, मरणभावविरोधात्,
208