________________
ललितविस्तरा-सटीका
कथमित्याह-"मरणभावविरोधात्" मरणामरणयोरात्यन्तिको विरोध इतिकृत्वा "एतेन" मृतस्यामृतभावप्रतिषेधेन "ऋत्वावर्तनिदर्शनं" "ऋतुर्व्यतीतः परिवर्ततेपुन'रिति दृष्टान्तम, "प्रत्युक्त' निराकृतं, कुत इत्याह "न्यायानुपपत्तेः" ताव दर्शयति "तवावृत्तौ" तस्य-ऋतोर्वसन्तादेरावृत्ती-पुनर्भवने “तदवस्थाभावेन" तस्या-अतीतवसन्ताविऋतुहेतुकायाश्चूतादेरङ्कुरादिकायाः पुरुषस्य च बालकुमारादिकाया अवस्थाया भावेन-प्राप्ता, परिणामान्तराभावात् स एव प्राकपरिणामः प्राप्नोति नापर इति भावः विपक्षो बाधामाह-"अन्यथा" परिणामान्तरे "तदावृत्तिः" तस्य ऋतोः आवत्तिः-पुनर्भवनम "इति" एतद "अयुक्तम" असाम्प्रतं. कत इत्याह-"तस्य" ऋतो: "तदवस्थानिबन्धनत्वात्" तस्याः चूतादेर कुरादिकाया अवस्थाया निबन्धनत्वात्, तदवस्थाजननस्वभावो ह्यसौ ऋतुः कथमिवासी अवस्था तत्सन्निधौ न स्याद् ?, एतदेव व्यतिकरेत माह
"अन्यथा" तत्सनिषानेऽप्यभवने "तबहेतुकत्वोपपत्तेः” सः-अतीतऋतुलक्षणोऽहेतुर्यस्याः सा तथा तद्भावस्तत्वं तदुपपत्तेः” तबेतुकाऽसौ न प्राप्नोतीति भावः,
टी.-एते च-आवत्तस्य-नरनारकादिपर्यायपरिवर्त्त (परिवर्तन) रूपस्य काल एव कारणं निमित्तमिति वादिभिरनंतस्य शिष्यैः भावतः (भावाऽपेक्षया) पूर्वोक्तविशेषणविशिष्टा अर्हन्तो भगवन्त एतेऽतीर्णादय (स्वयं न तीर्णाश्च वस्तुतः न परतारका) एवेति इष्यन्ते, "काल एव कृत्स्नं जगदावर्त्तयती"ति वचनं तेषां वर्तते. अर्थात्काल: सकलं विश्वं परिवर्तयति- (कर्तुं अकर्तुं अन्यथाकर्तुं समर्थ ईशवत् सामर्थ्यवान् कालः, परिवर्तयितुमपरिक्तयितुमन्यथापरिवर्तयितुमीष्टे स कालः) सर्वजगत्परितककाल एव नाऽन्य इति, तथाचार्हन्तो भवावर्त्तवन्त एव यतः काल एष भवावर्तस्य कारणं विद्यत एव, तीर्णास्तदेव स्युर्यदा यत्र भवावर्त कारणकालस्याभावः स्यात्, कालस्यास्तित्वेन भवावर्तो वर्तते, भवावर्तस्य विद्यमानत्वेन ते-एतेऽर्हन्तोऽतीर्णादय एव कथ्यन्ते,
एताशावर्त कालकारणवादिनामनन्तनामक- गुरुशिष्याणां मत-निरसनायाह'तोर्णेभ्यस्तारकेभ्योहद्भ्यो भगवद्भ्यो नमोनमः । ____ अर्थात्, ज्ञानदर्शनचारित्ररूपनौकया भवार्णवं-संसारसागरं तीणकालस्तीर्णाः, तथा चैतद् विश्वमंडले पूर्वोत्तरत्नत्रयीरूपयोगपोतेन भवोदधिं स्वय तीर्णाश्च परेषां तारका अर्हन्तो भगवन्तो भवन्ति, एवं च भवार्णवं तीर्णेषु अर्हत्सु भगवत्सु यथा अनुभूतपूर्वद्रव्यप्राणधारणरूपजीवनस्य पुनर्भवनं असम्भवितं तथा क्षयभावं प्राप्तस्य कर्माष्टकस्योदय रूपभवस्य पुनर्भवनमसंभवितं अर्थाद् यथा तीर्णा-मुक्ता पुनद्रव्यप्राणधारणरूपजीवनधारका
207