________________
ललितविस्तरा - सटीका
त्त्वादितः) तात्त्विकजिन ( जापक) आदेः सिद्धिर्ज्ञेया एवं शक्रस्तवस्य सप्तविंशतितम पदस्य व्याख्या समाप्ता.
शक्रस्तवस्याष्टाविंशतितमपदस्य व्याख्याऽऽरम्भात्पूर्वं तत्पदस्याऽवतरणिकाऽ
एते चावर्त्तकालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते " काल एव कृत्स्नं जगदावर्त्तयती" तिवचनाद्, एतन्निरासायाह - "तीर्णेभ्यस्तारकेभ्यः” ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तोर्णा:
अथ
वतार्यते -:
नैतेषां जीवितावर्त्तवद्भवावर्तो, निबन्धनाभावात् न ह्यस्यायुष्कान्तरवद्भवाधिकारान्तरं तद्भावेऽत्यन्तमरणवन्मुक्त्यसिद्धेः, तत्सिद्धौ च तद्भावेन भवनाभाव:, हेत्वभावात्, न हि मृतः
तद्भावेन भवति, मरणभावविरोधात् एतेन ऋत्त्वावर्त्तनिदर्शनं प्रत्युक्त, न्यायानुपपत्तेः, तदावृत्तौ तदवस्थाभावेन परिणामान्तरायोगात्, अन्यथा तस्यावृत्तिरित्ययुक्त, तस्य तदवस्थानिबन्धनत्वात् ॥
अन्यथा तदहेतुकत्वोपपत्तेः, एवं न मुक्तः पुनर्भवे भवति, मुक्तत्वविरोधात्, सर्वथा भवाधिकारनिवृत्तिरेव मुक्तिरिति, तद्भावेन भावतस्तीर्णादिसिद्धिः ॥ २८ ॥
पं. - " एते च आवर्तकालकारणवाविभिरिति" आवर्त्तस्य- नरनारकादिपर्यायपरिवर्तरूपस्य काल एव कारणं - निमित्तमिति वावदूकौः तीर्णाः ।।
"नैतेषांमित्यादि" न-नैव एतेषां तीर्णानां "जीवितावत्तंवत्" जीवितस्य- प्रागनुभूतस्यावर्त्तवत् - पुनर्भवनमिव "भवावर्त्तो" भवस्य - कम्र्माष्टकोदयलक्षणस्या - क्षीणस्यावर्त्त उक्तरूपः कुत इत्याह" निबन्धनाभावात् " निबन्धनस्य हेतोर्वक्ष्यमाणस्याभावात्, इदमेव भावयति - "न" नैव "हि" यस्माद् "अस्य" तोर्णस्य "आयुष्कान्तरवत्" नारकाद्यः युष्क विशेषवद् “भवाधिकारान्तरं" क्षीणतद्भवाधिकारादन्यो भवाधिकारो येनासाविह पुनरावर्त्तते, विपक्षे बाधामाह - "तद्भावे " - तस्य आयुष्कान्तरस्य भवाधिकारान्तरस्य च भावे - सत्तायाम् "अत्यन्तमरणवत्" सप्रर्वकारजीवितक्षयेण मरणस्येव "मुक्त्यसिद्धेः " मुक्त :-तीर्णताया असिद्धेः - अयोगाद्, व्यतिरेकमाह - " तत्सिद्धौ च " तस्य - अत्यन्त मरणस्य मुक्त र्वा सिद्धावभ्युपगतायां "तद्भावेन" आयुष्कान्तरसाध्येन भवाधिकारान्तरसाध्येन च भावेन "भवनाभाव:" परिणतेरभावः कुत इत्याह- "हेत्वभावात्" हेतोः - आयुष्कान्तरस्य भवाधिकारान्तरस्य चाभावात्, पुनस्तदेव प्रतिवस्तूपमया भावयति- "नहि "मृतः” परासुः "तद्भावेन" अतीतामृतभावेन भवति,
206