________________
ललितविस्तरा - सटीका
रणीयमत्र, अत एव भ्रान्तिरूपं ज्ञानं, अनुभव ( वृत्तित्वेन ) विषयत्वेनाथवाऽनुभवरूपेण सद्रूपोऽस्ति, असद्रूपो नास्ति, अन्यथा भ्रान्तिरूपं ज्ञानं, अनुभवे - संवेदने नायात्येव, थवाऽनुभवरूपेण नानुभवो भवेत् ।
मौलिक - विषयस्य स्पष्टीकरणम् : = मृगजलादौ जलादिज्ञानं ज्ञानरूपेण सदस्ति, एतदाविद्वदङगना सिद्धमर्थात् सर्वजनप्रतीतमेव, एतस्मिन् मृगजलाद्यनुभवे चैतन्य - पुरुषाद् भिन्नसूर्यकिरणाद्यपेक्षा शून्यः केवलपुरुष एव ( मृगजलादि - ज्ञानवान् पुरुष एव ) निमित्तं नास्ति, यदि मृगजलादि ज्ञाने केवलपुरुष एव निमित्तमिति मान्यतायां सर्वत्र (सर्वक्षेत्रे वा सर्वद्रष्टरि पुरुषे) सदा मृगजलादो जलज्ञानस्य सर्वथा अभावो न भविष्यति, एतावन्मात्रमपि न परन्तु प्रत्युत पुरुषनिमित्तस्य नित्यत्वेन तज्जन्यं मृगजलज्ञानं नित्यं भविष्यतीत्यापत्तिः । तथा च यथा मृगजलादिविषयकोऽनुभवः चिति ( चैतन्य - पुरुष ) मात्र निमित्तजन्यो नास्ति, तथा रागादयः, चितिमात्रनिमित्तजन्या न यथा मृगजलादिगतजलादिविषयकानुभवं प्रति पुरुषभिन्न संकतभूमिपतितरविकिरणाः कारणानि तथाsत्र रागादि प्रति पुरुषभिन्न पौद्गलिक–कर्माणि निबन्धनानि
-
प्रतिवस्तु -
(१) मृगजलादि अनुभवः
( २ ) पुरुषभिन्न सूर्यकिरणादि सहकारि जन्योऽस्ति.
(३) अनुभवरूपेण सद्रूपोऽस्ति.
कोष्ठकम् -
वस्तु
-
रागादिः
पुरुषभिन्न पौद्गलिककर्म सहकारि कारण जन्योsस्ति
अनुभवरूपेण सद्रूपोस्ति.
एवं च पौद्गलिकर्मरूपोपाधिजन्यरागादीनां विद्यमानत्वेन सत्त्वेन तेषां नयोऽपि तत्त्वरूपेण – सद्रूपेण सिद्धो जात एवं ज्ञेयम् ।
तथा च तथाभव्यत्व – आदि ( आदिपदेन सम्यक्त्वविशुद्धि - भावना - शुभ - शुद्धध्यान चारित्रमोहनीयक्षयादि ज्ञेय :) सामग्रीजन्यचरण ( चारित्र - विरति - स्वस्वरूप स्थिरता ) रूपपरिणामेन रागादीनां जेतृत्व - जयादित: ( आदिपदेन देशनादिद्वारा भव्यजीवजापक
205