________________
ललितविस्तरा-सटीका
किञ्च-चैतन्यमात्रादेव, अर्थात्, चैतन्यमात्रभिन्नकर्मरूपसहकारि (निमित्त) रहितात्चितिमात्रजन्यभ्रान्तिमात्रस्य स्वीकारे, भ्राान्तिमात्रस्योच्छेदाभावोऽस्तित्वनित्यनियमो लगेद्, अभ्रान्तज्ञानेषु अपि, (निमित्ते सति नैमित्तिकेनावश्यं भवितव्यं, अन्यथा तत्तस्य निमित्तमपि न स्यादनलमिवाऽङकुरोत्पत्त रनुच्छेद एव चितिभावे भ्रान्तेः) तथा च जीवाद्भिन्नकर्मरूपसहकारिरहितकेवलचितिमात्ररूपनिमित्तेन भ्रान्तिकार्य भवति, अर्थाद् रागादिरूपप्रकृत-भ्रान्तिरूपकार्य प्रति केवलचितिमात्रमेव निमित्तम्, यदि चितित्वेन भ्रान्तित्वेन कार्यकारणभावस्य त्मान्यता स्यात् , भ्रान्तिं प्रति चितिः कारणमस्तीति प्रतिपत्तौ, भ्रान्तिमात्रस्योच्छेदाभावप्रयुक्तः भ्रान्तिरविनाशिनी स्यात्, यतोऽभ्रान्तज्ञानेष्वपि भ्रान्तेनिमित्तत्वेन कल्पितचितिमात्रस्य सत्ता वर्त्तते, तथा च चितिमात्ररूपकारणसत्त्वे भ्राान्तिरूपकार्यस्य सत्ता, ('निमित्तसत्त्वे कार्येणावश्यं भाव्यम्' इति नियमोऽस्ति, यदि एतन्नियमस्यास्वीकारे तत्कार्यस्य तन्निमित्तं न तिष्ठेत्, यथाङकुरोत्पत्ति प्रत्यग्निः अत एव चितिसद्भावे भ्रान्तेरूच्छेदाभावः शाश्वती भ्रान्तिर्भवेत) अर्थान्मोक्षेऽपि चिति मात्रस्य सद्भावेन भ्रान्तेः शाश्वतत्वेन संसारोच्छेद (मोक्ष) स्याभावस्य (जिनत्वाभावस्य) प्रसङग आपतेत्, अतएव कस्यचिदपि मोक्षस्य संभवो न, संसारः शाश्वतो भवेदित्यापत्तिरापत्तिष्यति.
भ्रान्तिमात्रं प्रति चितिमात्रकारणसत्तेति नियमस्वीकारे दोषदर्शनम् = तथापिभ्रान्तिमात्रस्य निमित्त चितिमात्रमस्ति तथापि ब्रान्तिमात्रमसत - किंचिन्नास्तीति मान्यतायां अनुभव-बाधारूपापत्तिर्भविष्यति, यतो, असद् भ्रान्तिमात्रं स्वयं अनुभवंसंवेदनं न प्राप्नोति, नहि असत्, शशशृङगादि, अनुभूयते.
भ्रान्तिमेव व्यतिरेकतः (असत् प्रतियोगि सत् इति प्रतियोगिपद्धत्या) प्रतिवस्तुनः (ताशान्यवस्तुनः) उपन्यासेन भावना
तथा च मिथ्यारूपविषय-मरुमरीचिका चन्द्रद्वयादिरूपविषयविषयक-ज्ञाननिष्ठअनुभवः अनुभवरूपेण-ज्ञानरूपेण-सद्रूपोऽस्ति, अर्थात् , मृगजलविषयक-ज्ञानस्याऽनुभवः (तज्ज्ञानवृत्तिः अनुभवः) ज्ञानरूपेण सन्नेवाऽस्ति, एवं च ज्ञानानामनुभवो वा ज्ञानरूपोऽनुभव: ज्ञानरूपेण सद्रूप एव, विषयास्तु सत्या मिथ्या वा भवेयुः, तन्नवनिरीक्षणीयम्, परन्तु ज्ञानानामनुभवः वा ज्ञानरूपोऽनुभवः ज्ञानरूपेण सद्रूप एव नाऽसद्रूप एवेति विचा
204