________________
ललितविस्तरा-सटीका
सूत्रान्तिकैराश्रितः । योगाचारमताऽनुगैरभिहिता साकारबुद्धिःपरा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ।।)
एतेर्हन्तो भगवन्तः परमार्थेनाजिनादय एवेष्यन्ते 'भ्रान्तिमात्रमसदविद्येति' वचनात्, अर्थात्-निराकारस्वच्छसंवेदनरूपं ज्ञानं विना सर्वज्ञानानि भ्रान्तिरूपमात्राणीति मत्वा एकान्तेनाऽसदविद्येति मतेन मध्यमा अजिनादय एवष्यन्ते, तथा बुद्धं जिनत्वेन पर्यायवाचकशब्दत्वेन 'बुद्धिो जिनः' इति मन्यन्ते बौद्धाः, तन्मतनिरासायाह_ 'जिनेभ्यो: जापकेभ्यो नमो नम:'
तत्र-जिनजापक-सूत्रघटकजिनशब्दस्वार्थः = रागस्य, द्वषस्य, कषायाणां, इन्द्रियाणां (तद्विषयाणां) परोषहाणां, उपसर्गाणां घातिकर्मणो जेतृत्वात् (जयात्) जिना उच्यन्ते, यद्यते रागाद्याऽभावशत्रवः, असत्त्वविशिष्टा:-अविद्यमानाः सन्ति, . असतां भावारीणां जयो-निग्रहोऽसन्-असंभवितो यतो रागादीनामस्तित्वाभावेन, अभावरूपत्वं, अत एवासत्त्वकारणादेव सकलव्यवहारगोचरातीतत्वेन, . अनुग़हनिग्रहादिनिखिललोक-व्यवहारयोग्यतारहितत्वेन वन्ध्यापुत्रादिवत्, जय (अभिभव) क्रियां प्रति रागादिनिष्ठविषयताया अभाव इति, अत एव 'भ्रान्तिमात्रकल्पनाऽपि भ्रान्तिमात्रमसदविद्यमान' मिति वचनात्, न केवलं जय इत्यपिशब्दार्थः एषां रागादोनां-रागादिविषयक-भ्रान्तिमात्र (भ्रान्ति हि मुख्येऽर्थे क्वचिदृष्टे सति करणापाटवादिनाऽन्यत्र विपर्य यस्य ग्रहणे प्रसिद्धा यथा शुक्तौ रजतभ्रान्तिः,) कल्पनाऽपि, अघटमाना, कथमिति चेदुच्यते, जीवाद्भिन्नं पृथक् कर्मरूपं निमित्तं विना भ्रान्तेरभावः,
(स्फटिको रक्तोऽस्तीति भ्रमात्मकज्ञानेऽस्मिन् जपाकुसुमादेः सान्निध्यरूपोपाधिरूपों दोषो निमित्तं तथा जीवाद भिन्नं कतरूपोपाधिदोषरूपनिमित्तमन्तरेण रागादौ भ्रान्तिकल्पना असत्-मिथ्याचास्ति,)
' तथा च रागादिरूपप्रकृतभ्रान्तिं प्रति असद् (न किञ्चिदेव) निमित्त न मन्तव्यमेव. कथमति चेदुच्यते-अतिप्रसङगनामको दोषो भवति, नित्यं सत्त्वमसत्त्वं वाऽहेतोरिति प्राप्तितो दोषः पूर्वोक्तो भवति. अर्थादसन्निमित्तजन्यभ्रान्तिः सदा सद्पाsथवा सदाऽसद्रूपा भवेत् यत आकस्मिक कार्य नित्यसदथवा नित्यासद्पो भवतीति नियमोऽस्त्यतः पूर्वोक्तोऽतिप्रसंगो दोष आयाति.
203