________________
ललितविस्तरा - सटीका
जीवात्पृथक्कर्म्मरूपम् " अन्तरेण" विना, भ्रान्तेरयोगात्, पराशङ्कापरिहारायाह - "न च" नैव "असदेव” न किचिदेवेत्यर्थी, निमित्तं प्रकृतभ्रान्तेः हेतुमाह - "अतिप्रसङ्गात् " नित्यं सत्त्वमसत्त्वं वाsहेतोरिति प्राप्तेरिति, पुनरप्याशङ्काह
“चितिमात्रादेव” चैतन्यमात्रादेव पुनः स्वव्यतिरिक्तकर्म्मलक्षणसहकारिरहितात् " तदभ्युपगमे " भ्रान्तिमात्राभ्युपगमे "अनुपरमो" भ्रान्तिमात्रस्यानुच्छेदोऽभ्रान्तज्ञानेष्वपि भ्रान्तिनिमित्ततया परिकल्पितस्य चितिमात्रस्य भावात्, तत किमित्याह - "इति" एवम् "अनिर्मोक्षप्रसङ्गः" संसारानुच्छेदापत्तिः, मोक्षेऽपि भावात्, अभ्युपगम्यापि दूषणमाह - "तथापी " तिचितिमात्रादेव भ्रातिमात्राभ्युप गमेऽपि "तदसत्व" भ्रान्तिमात्रासत्त्वे "अनुभवबाधा" तस्य स्वयं संवेदनं न प्राप्नोति न ह्यसच्छशशृङ्गाद्यनुभूयत इति, एनामेव व्यतिरेकतः प्रतिवस्तूपन्यासेन भावयन्नाह - " न हि मृगतृष्णिकादावपि” मरुमरीचिका द्विचन्द्रादावपि मिथ्यारूपे विषये आस्तां सत्याभिमते जलादो "अनुभवः” तज्ज्ञानवृत्तिः "अनुभवात्मना " ज्ञानात्मनाऽप्यसन्नेव सविषयतया तु स्यादप्यसनित्यपिशब्दार्थः ।।
"आविद्वदङ्गनादिसिद्धमेतत्" सर्वजनप्रतीतमित्यर्थः, अत्रैव विशेषमाह — " न चायं" मृगतृष्णिकाद्यनुभवः " पुरुषमात्र निमित्त:" पुरुषमात्रं - पुरुष एव तदनुभववान् स्वव्यतिरिक्तरविकरादिकारणनिरपेक्षो निमित्तं - हैतुर्यस्य स तथा कुत इत्याह- "सर्वत्र" क्षेत्रे द्रष्टरि वा "सदा" सर्वकालम् "अभावाऽनुपपत्तेः " अनुपरमप्राप्तेः प्रस्तुतयोजनामाह - "न" नैव "एवं" मृगतृष्णिकाद्यनुभववत् चितिमात्रनिबन्धना रागादयः, किन्तु चैतन्यव्यतिरिक्त पोद्गलिक कर्म्मसहकारिनिमित्ता " इति भावनीयं प्राग्वदस्य भावना कार्या ।
टी. - एतेऽपि - कल्पिताविद्यावादिभि: ( वेदान्तपक्षे प्रपश्वकारणरूपमाया - ( अविद्या ) या अनिर्वाच्यत्वेऽपि असद् - अविद्या - मायावादिभि: - अद्वैतवादिभिः) अथवा कल्पिता - विद्याऽस्तीति वादिभि:,
"नाsन्योऽनुभाव्यो बुद्धयाऽस्ति, तस्या नाऽनुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सेव प्रकाशते ।। बाह्यो न विद्यते ह्यर्थो यथा बालै विकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्त्तते ।। इति कस्मिंश्चिद् बौद्धग्रन्थे,
"3
तत्त्वान्तवादिभिः (स्वस्वरूपावच्छिन्न - पूर्णावस्था - ज्ञानमात्ररूप - तस्वान्न तत्त्वनिष्ठारूपं निराकारं स्वच्छसंवेदनमेव वस्तुतया वंदितुं शीलं येषां ते तथा तत्त्वा न्तवादिभिः - सुगतशिष्यचतुर्थप्रस्थानवर्तिभि माध्यमिकैः ) माध्यमिकानामेव निराकारं - निर्विषयाकारं स्वच्छसंवेदनमेव स्वच्छ-संवेदनमात्रमन्तरेण संवेदनान्तराणां भ्रान्तिमात्रतया एकान्तत एवासत्त्वाभ्युपगमवादिभि:, ( तथा च सौगतप्रस्थानचतुष्टयलक्षणमिदं यथा = "अर्थो ज्ञानसमन्वितो मतिमता वैभाष्यिकेणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसर:
202