________________
ललितविस्तरा-सटीका
अथ शक्रस्तवस्य सप्तविंशतितमपदस्य व्याख्यारंभ
एतेऽपि कल्पिताविद्यावादिभिस्तत्त्वान्तवादिभिः परमार्थेनाजिनादय एवेष्यन्ते "भ्रान्तिमात्रमसदविद्येति” वचनाद्, एतद्वयपोहायाह
"जिणाणं जावयाणं" जिनेभ्यो जापकेभ्यः, तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकमजेतृत्वाज्जिनाः, न खल्वेषामसतां जयः, असत्त्वादेव हि सकलव्यवहारगोचरातीतत्वेन जयविषयताऽयोगात् भ्रान्तिमात्रकल्पनाऽप्येषामसङ्गन्तव, निमित्तमन्तरेण भ्रान्तेरयोगात्, न चासदेव निमित्तम्, अतिप्रसङ्गात्,
चितिमात्रादेव तु तदभ्युपगमेऽनुपरम इत्यनिर्मोक्षप्रसङ्ग, तथापि तदसत्त्वेऽनुभवबाधा, न हि मृगतृष्णिकादावपि जलाद्यनुभवोऽनुभवात्मनाऽप्यसन्नेव,
___ आविद्वदङ्गनादिसिद्धमेतत्, न चायं पुरुषमात्रनिमित्त, सर्वत्र सदाऽभावानुपपत्ते, नैवं चितिमात्रनिबन्धना रागादय इति भावनीयम्, एवं च तथाभव्यत्वादिसामग्रीसमुद्भतचरणपरिणामतो रागादिजेतृत्वादिना तात्त्विकजिनादिसिद्धि २७ ॥
पं.-"तत्त्वान्तबादिभिरिति” तस्वान्तं-तत्त्वनिष्ठारूपं निराकारं स्वच्छसंवेदनमेव वस्तुतया वदितु शीलं येषां ते तथा तैः, एते च सुगतशिष्य चतुर्थप्रस्थानवत्तिनो माध्यमिका इति सम्भाव्यते,
मेव निराकारं स्वच्छसंवेदनमात्रमन्तरेण संवेदनान्तराणां भ्रान्तिमात्रतया एकान्तत एवासत्त्वाभ्युपगमात. तथा च सौगतप्रस्थानचतुष्टयलक्षणमिदं, यथा-अर्थो ज्ञानसमन्वितो मतिमता भालि. केणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सूत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिहिता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधिय: स्वच्छां परां संविदम् ।।१॥" इति । "प्रत्यक्षो नहि बाह्यवस्तुविसर इति यतोऽसावालम्बनप्रत्ययत्वेन स्वजन्यप्रत्यक्षज्ञानकाले क्षणिकत्वेन व्यावृत्तत्वात्ततज्ञानगतनीलाद्याकारान्यथाऽनुपपत्तिवशेन पश्चादनुमेय एव, प्रत्यक्षस्तु तद्ज्ञानस्य स्वात्मैव, स्वसंवदेनरूपत्वादिति, तथा तैरपि बुद्धो जिनत्वेनाभ्युपगम्यते, तदुक्तम्-"शौद्धोदनिदंशबलो, बुद्धः शाक्यः पाह मित: गतसूः । मारजिदद्वयवादी, समन्तभद्रो जिनश्च सिद्धार्थः ।। १ ।।" इति ॥
"नेत्यादि" न खलु-नैवैषां-रागादीनामसताम्-अविद्यमानानां जयो-निग्रहः, कुत इत्याह"असत्त्वादेव" अविद्यमानत्वादेव "हि" स्फुटं “सकलव्यवहारगोचरातीतत्वेन" अनुग्रहनिग्रहादिनिखिललोकव्यवहारयोग्यतापेतत्वेन वान्ध्येयादिवत्, “जयविषयताऽयोगात्" जयक्रियां प्रति विषयभावायोगाद्, अभ्युच्चयमाह-"भ्रान्तिमात्रकल्पनाऽपि": 'भ्रान्तिमात्रमसदविद्यमान'मिति वचनात, न केवलं जय इत्यपि शब्दार्थः “एषां" रागादीनां "असङ्गतैव" अघटमाना, कुत इत्याह- "निमित्तं"
201