________________
ललितविस्तरा - सटीका
( अनंतानंत कालस्य स्पर्धा करोति एकैकस्मिन् निगोदे एतावन्तोऽनंता जीवाः सन्ति, भविष्यति कदाचिदपि निगोदस्य संख्याऽनादितो मुक्ति गतेभ्यः सर्व जीवेभ्यः अनंतगुणाऽवतिष्ठमाना वर्त्तते )
( यथा चोक्त वार्तिककारेण - " अत एव च विद्वत्सु मुच्यमानेषु संततम्, ब्रह्माण्डलोकजीवानामनन्तत्वादशून्यता ॥ १॥ अत्यन्यूनातिरिक्तत्वै र्युज्यते परिमाणवत् । वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः ||२||" अन्यथा = यदि भव्यानामनन्तानन्तस्योच्छेदरूपस्य मान्यतायां सर्वभव्यानां मुक्तिभावेन युष्माकं मते तीर्थनिकारं दृष्ट्वा संसारे पुनरावृत्ति प्राप्तस्येष्टमुक्तभगवद्गोशालक (विशिष्टगोशालकादि) संसारिवद् उपचरित - संसारभाजः—सर्वे संसारिण ( मिथ्या ) असत्य - संसारिण इति बलादापद्यते अनिष्टं चैतत्, मिथ्यात्वेनानिष्टमेव, जीवानां परिमेयत्वे मुक्ता संसारे पुनर्निवर्त्तन्तामित्येकापत्तिः संसारः कदाचित् संसारिजीवशून्यो भवेदिति द्वितीयापत्तिः । एता आपत्तयः इष्टा भवितुं नार्हन्ति यतः, उपदेश्योपदेशकत्वाभावेनानिष्टापत्तय इति ).
अत एव वदामो वयं येषां घातिकर्मरूपच्छद्म तत्कारणभूतघातिकर्मबन्धयोग्यतारूप भवाधिकाररूपंच्छद्म । एवमुभयरूपच्छद्मनो व्यावृत्तिरूपक्षयकारकेभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः इति = षड्विंशतितमपदस्य व्याख्या समाप्तिसूचयति.
शक्रस्तवस्य सप्तमी संपद उपसंहारः
तथाचार्हतां भगवतां कीदृशं स्वरूपमस्ति यतस्ते सततं नियतं स्तोतव्या एव सन्ति ? इति प्रश्ने, समाधानमीदृशं ज्ञेयम् - अर्हन्तो भगवन्तोऽनन्तज्ञानं अनन्तदर्शनं च पूर्वोक्त घातिकर्मतत्कारणभवाधिकाररूपच्छद्मक्षयरूपं विशिष्टं स्वरूपमत एवाप्रतिहतवर ज्ञानदर्शनधरत्व-व्यावृत्तच्छद्मत्वरूपं स्वरूपं 'अप्पडिहयत आरभ्य वियट्टछउमाणं' यावत् पदद्वयेदशितमस्ति तस्मात् एषा द्विपदी सप्तमी स्वरूपसम्पद्_, स्तोतव्यसम्पदः सकारणातत्स्वरूपवर्णनकारणसहिता वर्तते, कथ्यते च ।।
,
अथ पदचतुष्टयपदवती, आत्मतुल्य पर फलक त्वनामिकाया अथवा निजसम - फलदनामिकाया अष्टमीसंपदो विवरणात् पूर्वं प्रथमपदस्य व्याख्यादौ शास्त्रकारेण क्रियमाणा अवतरणिका -
200