________________
ललितविस्तरा - सटीका
स्याद्, तथा च घातिकर्मरूपच्छद्म, घातिकर्मबन्धयोग्यता रूपभवाधिकारश्च छद्मोच्यते, अर्थात् कारणरूपच्छद्म च कार्यरूपं छद्मवं द्विप्रकारावच्छिन्नं छद्म येषां व्यावृत्तं ते व्यावृत्तच्छद्मानः, अर्हन्तो भगवन्तो भवन्तीति विग्रह: (समासस्यार्थः पृथक्कृत्वा दर्शनीयः स समासविग्रहः कथ्यते )
छद्मव्यावृत्तिचर्चा = यावत्कर्मरूपसंसारस्य क्षयो न भवेत्तावत् सकलकर्मक्षयरूपीsपवर्गे (मोक्षः) न भवेत्, कर्मरूपसंसारस्य क्षयो यदा भवेत्, तदा जन्मनो ( अवतारस्य ) परिग्रहो न भवेद्, यदीहशीव्याप्ते र्न मान्यतायां वा असदिति प्रतिपत्तौ ( क्षीणे च जन्मप्ररिग्रहः इति पाठान्तरं अत्र कश्चिन्मन्यते, परन्तु पाठान्तरस्य प्रमाणं न दर्शितम्) अर्थात् क्षोणेऽपि कर्मणि, अवतारधारणस्य मते हेतोरभावेन सदा ( सर्वकालं ) अवतार - जन्मनः प्राप्ति र्भवेत्,
यदि धर्मध्वंसं दृष्ट्वा धर्मतीर्थस्य पुनः संस्थापनार्थ जन्मिनां जन्मतो निस्तारार्थं करुणा बुद्धितोऽवतरति भवेत् इति धर्मतीर्थनिकारो हेतुरस्तीति वर्णनं न यौक्तिकं यतः कर्मकृतबुद्धिविपर्यासरूपाऽविद्यारूपस्य भवाधिकाररूपस्य च हेतोरभावेन जन्मनोऽवतारस्य सम्भवोऽपि न, ( ' दग्धे बीजे प्रादुर्भवति नाऽङकुर:' इति न्यायेन छद्मरूपबोजे दग्धे सति पुनर्भवरूपाङकुरो नोत्पद्यते एव ) यदीश्वरे भवाधिकारोऽविद्या वा तिष्ठतीति मते, भवाधिकारघातिकर्मच्छद्मवत्त्वेनेश्वरश्च्छद्मस्थो भवेत्, तत्र केवलज्ञानं कुतः सम्भवेत् ? अथवा सकलकर्मक्षयरूपोऽपवर्गः कुतः सम्भवेत् ? न सम्भवेदेव, तल्लक्षणाभावादेव.
1
ननु मुक्तात्मनां पुनरिहागमनस्य अभावे सत्यमेव भव्यानां (मुक्तिगमनयोग्यानां ) उच्छेदेन - सर्वथा विनाशेन संसारशून्यता-संसारो भव्यजीवशून्यो भविष्यतीत्येतदसदालंबनं कथं न ग्राह्यमिति चेदुच्यते भव्यानामानन्त्येन ( मध्यमानंतानंत - प्रमाण संख्यावत्त्वेन ) उच्छेदस्य—सर्वथा विनाशस्याऽसिद्धिरसम्भवोऽति, यतः, अनन्ताऽनन्त कस्याऽनुच्छेद रूपत्वमस्ति अभावाभावस्य भावात्मकत्वमिव तथा च यावन्तो जीवा व्यवहारराशितो निर्गत्य मोक्षं यान्ति, तावन्तो जीवा अनादिनिगोदत: ( अव्यवहारराशितः ) निर्गत्य व्यवहारराशावागच्छन्ति, तस्मादेष संसारः भव्यजीवैरिक्तो न भावी यथा निगोदराशिरक्षयानन्तरूपः, तथा भव्यराशिरप्यक्षयानन्तनित्यरूपोऽस्ति.
1
199