________________
ललितविस्तरा-सटीका
मन्यन्ते, परन्तु तत्त्वतो दोषशून्यं-घातिकर्मक्षयवन्तं न मन्यन्ते यतः "तीर्थकराः परमं पदं प्राप्याऽपि धर्मतीर्थ-तिरस्कारं दृष्ट्वा भूयोऽपि भवमागच्छन्ति" इति तेषां वचनमस्ति ।
व्यावृत्तच्छद्मभ्यः = आत्मनो ज्ञानदर्शनादिगुणान् हादयतीति छद्म-घातिकर्म (ज्ञानावरणीयदर्शनावरणीयमोहनीयान्तरायरूपकर्मचतुष्टयं घातिकर्मोच्यते) ज्ञानावरणादिरूप घातिकर्मबन्ध-योग्यतास्वरूपश्च भवाधिकार इति द्वयं छद्मत्वेन परिभाष्यते ।
पुरुषस्य प्रकृतिविकारान् द्रष्टुमिच्छादिहक्षा सांख्यानां, भवबीजं शैवानां, भ्रांतिरूपा विद्या वेदान्तिकानां, अनादिक्लेशरूपावासना, सौगतानां, एषा घातिकर्मजनक कर्मबन्धयोग्यतारूपभवाधिकारो जैनानां, भिन्न-भिन्न-मताभिमतैकार्थकभवाधिकार परिभाषाः) यतो घातिकर्मणः कारणं भवाधिकारोऽस्ति ।
(आत्मना सह संलग्ना कार्मणवर्गणा कर्मत्वेन व्यवह्रियते-कार्मणवर्गणाया आत्मना सह सम्मिश्रणं 'बन्धः' । आत्मनः कर्मस्कन्धैः सह वेष्टनयोग्यत्वं, कर्मस्कन्धानां आत्मनि वेष्टनयोग्यत्वं अतो द्वयोमिथो वेष्टनयोग्यताऽनादिकालीना वर्त्तते, आकाशादौ तादृशीयोग्यताया अभावेन तादृशवेष्टनं न भवति. निरुक्तद्रव्य-द्वयेऽन्ययोग्यताभिः सह ताशवेष्टनयोग्यताऽपि वर्तते, ताशयोग्यता-कारणेन जीवपुद्गलयोः सृष्टे वैविध्यं दृश्यते । “सहजं तु मलं विद्यात्, कर्मसंबन्धयोग्यतां । आत्मनोऽनादिमत्त्वेऽपि नाऽयमेनां विना यतः ॥ यो. विं. श्लो. १६४")
तथा च घातिकर्मरूपकार्य प्रति घातिकर्मबन्धयोग्यतारूपभवाधिकारः कारणम्, घातिकर्मबन्धयोग्यतारूपभवाधिकारकारणसत्त्वे घातिकर्मणः सत्ता, घातिकर्मबन्धयोग्यतारूपभवाधिकारकारणाभावे घातिकर्मरूपच्छद्मनोऽभावः, अत एव, अन्वयव्यतिरेकशालिनि कार्यकारणभावस्य घटनेन, घातिकर्म प्रति तदबन्धयोग्यतारूपभवाधिकारः कारणं वर्तते ।
अत एव-भवाधिकाराभावे कर्मयोगस्याभावादेवाऽन्यमतानुयायिनो वदन्ति 'असहजाऽविद्येति सहभाविनो गुणाः इति न्यायेन जीवेन सहासहभाविनी अर्थात् जीवस्वभावरूपा न भवतीत्यर्थः । 'अविद्या'- कर्मकृतो बुद्धिविपर्यासः तथाहि- "अनित्याशुचिदुःखाऽनात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।" (पातं. यो. सू. २-५) अर्थात्, अविद्यायाः कारणं कर्म, यदाऽविद्याकारणं कर्म निवृत्त स्यात्तदाऽविद्या कार्य निवृत्तमपि
198