________________
ललितविस्तरा-सटीका
"वियदृच्छउमाणं" व्यावृत्तच्छद्मभ्यः, छादयतीति छद्म-घातिकाभिधीयते ज्ञानावरणादि, तद्बन्धयोग्यतालक्षणश्च भवाधिकार इति, असत्यस्मिन्कर्मयोगाभावात्, अत एवाहुरपरे
"असहजाऽविद्ये"ति, व्यावृत्तं छद्म येषां ते तथाविधा इति विग्रहः, नाक्षीणे संसारेऽपवर्गः क्षीणे च न जन्मपरिग्रह इत्यसत्, हेत्वभावेन सदा तदापत्ते., न तीर्थनिकारो हेतुः, अविद्याऽभावेन तत्संभवाभावात्, तद्भावे च छद्मस्थास्ते, कुतस्तेषां केवलमपवर्गों वेति ?, भावनीयमेतत्, न चान्यथा भव्योच्छेदेन संसारशून्यतेत्यसदालम्बनं ग्राह्यम् आनन्त्येन भव्योच्छेदासिद्धः, अनन्तानन्तकस्यानुच्छेदरूपत्वाद्, अन्यथा सकलमुक्तिभावेनेष्टसंसारिवदुपचरितसंसारभाजः सर्वसंसारिण इति बलादापद्यते, अनिष्टं चेतदिति, व्यावृत्तच्छद्मान इति २६ ॥ एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया चैतद्रूपत्वात् स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पदिति ७ ।
पं.- "तबन्धेत्यादि" तस्य - ज्ञानावरणादिकर्मणो बन्धयोग्यता-कषाययोगप्रवृत्तिरूपा लक्षणं-स्वभावो यस्य स तथा. चकार: समच्चये भिन्न क्रमश्च, ततो भवाधिकारश्च छदमकारणत्वाच्छद्मोच्यते, कुत इत्याह- "असतीत्यादि' सुगमं चैतद् "अत एव" भवाधिकाराभावे कर्मयोगाभावादेवाहुः-ब्रुवते अपरे-तीर्थ्याः
_ "असहजा" जीवेनासहभाविनी जीवस्वभावो न भवतीत्यर्थः "अविद्या" कर्मकृतो बुद्धिविपर्यासः, कम्मव्यावृत्तौ तद्वयावृत्तेः "इति" एवं कार्यकारणरूपं “व्यावृत्तं छद्म येषामित्यादि" सुगमं चैतत्, नवरं "न चान्यथेति" न च-नैवान्यथा मोक्षात्पुनरिहागमनाभावे "इष्टसंसारिवदिति" मोक्षव्यावृत्तविवक्षितगोशालकादिसंसारिक्त् ।।
____टी.-'एते'-तीर्थकरा अर्हन्तो भगवन्तोऽपि आजीविकनयमतानुसारिभि गर्गोशालाकशिष्यैस्तत्त्वतः खलु 'अव्यावृत्तच्छद्मान' एवेष्यन्ते, 'तीर्थनिकारदर्शनादागच्छन्तीति'वचनाद्, एतन्निवृत्त्यर्थमाह-"वियदृच्छउमाणं"
आजीविकनयमताऽनुयायिनः (तथाचाहुराजीविकनयानुसारिणः, "ज्ञानिनोधर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः" स्या. मं. अन्य. यो. व्य.)
(केचिदन्येऽपि वदन्ति “परित्राणाय साधूनां, विनाशाय च दुष्कृतां धर्म-संस्थापनार्थाय सम्भवामि युगे युगे") गोशालकशिष्याः, एनं तीर्थंकरं, अप्रतिहतवरज्ञानदर्शनधरत्वेन
197