________________
ललितविस्तरा-सटीका
तथा चाप्रतिहतवरज्ञानदर्शनधरत्वरूपप्र-कार (वैशिष्टय) विशिष्टमहद्रूपं वस्तु, एवमेव वर्तते, अन्यथा-यदि, अर्हत्सु अप्रतिहतवरज्ञानदर्शनप्रकाराभावे, परिपूर्णत्वेन साकल्येन परोपकार-सम्पादनं न घटते, कथमिति चेदुच्यते, पुरुषार्थोपयोगीष्टतत्त्वतोभिन्नानामन्येषां-आशयादीनां - अभिप्राय - द्रव्यक्षेत्रकालभावरूपविषयविषयकावबोधस्याभावो विद्यते, सकलहेयविषयविषयकपरिज्ञाने सत्येवाविकलं-सकलमुपादेयमवबोद्धं शक्यम् यत: परस्परापेक्षाऽऽत्मलाभत्वाद् हेयोपादेययोः, हेयस्वरूपलाभ: उपादेयस्वरूपमपेक्षते, उपादेयस्वरूपलाभ:, हेयस्वरूपमपेक्षते, ह्रस्वदीर्घयोरिव पितृपुत्रयोरिव वा सर्वमनवबुध्यमानाः कथमिवाऽविकलं-सकलं परार्थं सम्पादयेयुरिति,
___ अर्थात्-सकलपुरुषार्थोपयोगीष्टतत्त्वतो भिन्नाऽभिप्रायद्रव्यक्षेत्रकालभाव-समस्तहेयोपादेयरूपसकलविषयविषयकज्ञानप्रकर्षशालित्वेनाऽर्हतोऽविकल-(साकल्येन) सर्वांशतः परार्थसम्पादनसमर्थाः (अतः कथ्यतेऽनन्तज्ञानिनोऽनन्तोपकारिणोऽर्हन्तः अनन्तोपकारं प्रति अनन्तज्ञानं कारणं, यथा ज्ञानं तथोपकारः) इति सूक्ष्मधिया भावनीयं, ज्ञानग्रहणं चादौ (केवलज्ञानादौ) सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति अप्रतिहतवरज्ञानदर्शनधराः ।। (अनुत्तरे ज्ञानदर्शने युगपदुपयोगाऽभावेऽपि लब्धिरुपतया धारयतीत्यनुत्तरज्ञानदर्शनधराः, पूर्वावशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता, ततश्चोपयोगवल्लब्धिद्वयमपि भिन्नकालभावीति व्यामोहः, कस्यचिन्नाऽभूदत उक्तमनुत्तरज्ञानदर्शनधरा इति न पौनरुक्त्यं । उत्त. अ. ६, गा. १६) (ज्ञानदर्शनयोर्मध्ये ज्ञानं प्रधानं, ज्ञानोपयोगे वर्तमानस्य जीवस्य सर्वा लब्धयो भवन्ति, एतद्वस्तु, दर्शनोपयोगे वर्तमानस्य जीवस्य सम्बन्धे न घटते, उक्त च “सव्वाओ लद्धीओ सागारोपओगोवउत्तस्स, नो अणागारोवओ गोवउत्तस्स' सर्वज्ञानां प्रथमसमये ज्ञानं ततो द्वितीयसमये दर्शन, छद्मस्थानां प्रथमसमये दर्शनं ततो द्वितीय समये ज्ञानं भवतीति स्वभावः)
इति शक्रस्तवस्य पंचविंशतितमपदं समाप्तं ।
अथ शक्रस्तवस्य षड्विंशतितमपदस्य प्रारंभः 'व्यावृत्तच्छद्मभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः
196