________________
ललितविस्तरा-सटीका कर्मावरणानि प्रकृष्टावस्थावद्भिस्तैस्तै हेतुभिः सर्वथा क्षय-विषयाणि भवन्ति. एतादृशी विशिष्टा व्याप्तिरत्र विज्ञेया.
दार्टान्तिके दृष्टान्तसमन्वयपूर्व वर्तमानव्याप्तिसमन्वयः
यथा यद्रोगस्य यया चिकित्सया स्वल्पांशतो विनाशो भवति, यथा चाभ्राणि येन मरुता स्वल्पानि निरस्यन्ति, तान्येवाऽभ्राणि जवनेन पवनेन सर्वथा विलीयन्ते तथा जीवात्मप्रदेशैः सहाविभागीभूतकर्मावरणनामकाऽभ्राणि प्रचण्डमतेन प्रतिपक्षेण पवनेन तथा प्रचण्ड-प्रतिपक्षसेवनया सर्वथा क्षीयन्ते इति परमं सत्यमेवात एव कर्मावरणक्षयः सूपपादः (सुबोधः- सम्यक्प्रतीतिविषयएव) अर्थात्केवलं श्रद्धयं नाऽपितु युक्तिगम्यः ।
प्रकृतवस्तुसिद्धि:- आत्मन एषा प्रकृतिरस्ति यद् यदा सर्वज्ञानादिप्रतिबन्धकावरणस्य चक्षुः पट्टकबन्धेन यथा किंचिद्वस्तु न दृश्यते, तथाऽऽत्मज्ञानरूपनयन-ज्ञानावरणकर्मरूपपट्टकान्तराऽनयनाऽनन्तरं, आत्मना किंचिन्न ज्ञायते, तथा च केवलज्ञानावरणक्षयेण जातमात्मज्योतीरूपं ज्ञानं केवलज्ञानं, एतज्ज्ञानावरणं 'केवलज्ञानावरणं' कथ्यते, एतदावरण-सर्वघाति-क्षये सर्वज्ञानं प्रतीयते, दृश्यते च स्वानुभवानुमानादिभिः, निद्राद्यावरणक्षयविशेषजन्यो ज्ञानप्रकर्षः सर्वथा प्रतीत एव ।
अर्थात् प्रकृष्टज्ञानरूपकेवलज्ञानस्य न कश्चित् ज्ञेयविशेषः (ज्ञेयव्यक्तिः) विषयोगोचरो न भवतीति नाऽपितु भवत्येव परन्तु सकलं ज्ञेयवस्तुमात्रं विषयरूपमस्ति, यतः सर्वे सद्रूपपदार्थाः ज्ञेयस्वभाव (ज्ञेयत्व) रूप स्वार्थस्यातिलङ्घनं (अतिक्रमणं) न कुर्वन्त्येवार्थात् सर्वे उत्पादव्ययध्रौव्यात्मकसत्-पदार्थाः ज्ञानविषयता-ज्ञेयत्वरूपज्ञेयस्वभावाऽभिन्नाः सन्ति यतः केवलज्ञानस्य आवरणरहितत्वेनाप्रतिस्खलितत्वं सर्वव्यापकत्वं -लोकालोके निर्व्याघातकत्वं विद्यते,
पूर्वोक्तन्यायेन प्रकृतसूत्रस्याप्रतिहतवरज्ञानदर्शनधरत्वरूपस्वार्थस्याऽतिक्रमणस्यैकान्तेनाऽभावः सिद्धयति, अर्थादर्हत्सु भगवत्सु, अप्रतिहतवरज्ञानदर्शनधरत्वरूप-प्रकृतसूत्रस्य स्वार्थः संपूर्णतया व्याप्तोऽस्ति, यदि भगवत्सु प्रतिहतज्ञानदर्शनधरत्वमते तु असत्यार्थकसूत्रस्यसम्भवेन, प्रकृतसूत्रे अप्रतिहतवरज्ञानदर्शनधरत्वरूपस्वार्थरूपसत्यार्थस्यातिलङ्घनरूपापत्तिप्रसङग आयातो-यदत्यन्तमनिष्टापत्तिः,
195