________________
ललितविस्तरा-सटीका
आवरणक्षयसाधकानुमान-प्रयोगः = अस्मिन्नात्मनि, आवरणं नास्ति, सम्यग्दर्शनादिगणगणोपलब्धिहेतोः, अस्मिन्ननुमाने, आवरणं प्रतिषेध्यमस्ति, तस्य कारणं मिथ्यादर्शनादि, अस्ति, तस्य च प्रतिपक्षरूपसम्यग्दर्शनादिगुणकलापोपलब्धिरूपहेतुत्वेनैष प्रकृतहेतुः 'कारणविरुद्धोपलब्धिरूपेण प्रख्याप्यते'-ऽर्थादावरणनिषेधः प्रतीयतेऽर्थात्, 'यत्कारणं यत्कार्यकरणेन सह विरोधि भवति, तत्कार्यं, तत्कार्यस्य कारणस्य विरोधिरूपकारणस्य सेवनेन (पुनः-पुनरभ्यासेन) क्षयं प्राप्नोति, अत्रैताहशी व्याप्तिया,
दृष्टांतं दार्टान्तिके घटयित्वा व्याप्तिसमन्वयः- यथाऽग्निरूपकारणं, रोमोद्गमादिरूपकार्यस्य कारणेन शीतेन सह विरोधि भवति, अत एव शीतविरोधिरूपाग्नि कारणस्य सेवनेन रोमोद्गमादिरूपकार्य नश्यति, तथैतत् सम्यग्दर्शनादिगुणकलापरूपकारणं, आवरणरूपकार्यस्य कारणभूत-मिथ्यादर्शनादिविरोधि भवति अर्थादावरणकारणमिथ्यादर्शनादिप्रतिपक्षरूपसम्यग्दर्शनादिगुणकलापरूपकारणस्य सेवनया, आवरणरूपकार्यं विलीयतेऽत एव प्रतिपक्षसेवनयाऽऽवरणक्षयः सूपपाद एव न चावरणक्षयस्यातीन्द्रियत्वात् (अतीन्द्रियत्वं-इन्द्रियजन्यलौकिकप्रत्यक्षाविषयत्वम् यथा कालस्याऽतीन्द्रियत्वम्) आवरणक्षयरूपसाध्येन सह प्रतिपक्षसेवनारूपहेतुनिष्ठ-अविनाभावसम्बन्धस्यहेतुसंबंधज्ञानस्य सिद्धिरिति वाच्यम् कथमिति चेदुच्यते
तत्तानवोपलब्धेः = आवरणरूपकर्मणां यो देशतः (अलपांशेन) क्षयः स 'निर्जरा' कथ्यते, तन्निर्जरायाः कारणं प्रतिपक्षसेवनाऽस्ति, तत्प्रतिपक्षसेवनया चावरणरूपकर्मणां तनुता-तुच्छता-या उपलब्धित आवरणक्षयविशेषः प्रत्यक्षगोचरोऽस्ति, अत एव प्रतिपक्षसेवनारूपहेतुनिष्ठव्याप्तिरूप-प्रतिबन्धस्य सिद्धिरस्ति, स्वानुभवादितः सिद्धज्ञानादे वढेरन्यथाऽनुपपत्तेः प्रतिबंधरूप-व्याप्तेः सिद्धिरस्ति, तथा च प्रतिपक्षसेवनायां सत्यां (आवरणक्षयजननद्वारा) स्वानुभवादिसिद्धज्ञानादे: (तारतम्येनाऽपि) वृद्धिरुत्कर्षः सिद्धयति, प्रतिपक्षसेवनायामसत्यां स्वानुभवादिसिद्धज्ञानादिवृद्धिरूपोत्कर्षस्याऽभाव एवमन्वयव्यतिरेकाभ्यां स्वानुभवादिसिद्धज्ञानादिवृद्धौ (आवरणक्षयजननद्वारा) प्रतिपक्षसेवना कारणम् । ननु प्रतिपक्षसेवनया केवलमावरणकर्मणां तनुतोपलब्धि भवति कथं सर्वथाऽऽवरणकर्मणां क्षयो निश्चीयते ? इति चेदुच्यते, ये हेतुभिः प्रतिपक्षसेवनाहेतुभिः अल्पांशतः क्षयस्य (निर्जरायाः) विषयभूतानि यानि कर्मावरणानि भवन्ति । तानि
194