________________
ललितविस्तरा-सटीका
पत्तिस्तथोपपत्तिः यथाऽत्राप्रतिहतवरज्ञानदर्शनधरत्वरूपे साध्ये सत्येव सर्वज्ञसर्वशित्वविशिष्ट-निरावरणत्वं तथोपपत्तिः । असति साध्ये हेतोरनुपपत्तिरेवाऽन्यथानुपपत्तिः, यथाऽत्राप्रतिहतवरज्ञानदर्शनधरत्वरूप-साध्याभावे, सर्वज्ञसर्वदर्शित्वविशिष्ट-निरावरणत्व हेतोरभावः । .. ... (२) 'पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ताप्तिः' तथा च प्रकृतेर्हद्भगवन्मात्रस्य पक्षत्वाद् दृष्टान्ताभावात् पक्षीकृत एव भगवद्विषये नयान्तराभिप्रेत सार्वदिक-सर्वज्ञसर्वदर्शित्वविशिष्ट-निरावरणत्वरूप-साधनस्य, अप्रतिहतवरज्ञानदर्शनधरत्वरूपसाध्येन सह व्याप्ति वर्तते, अत इयमन्ताप्तिशब्देनोच्यते, किंच-अप्रतिहतवरज्ञानदर्शनधरत्वरूपकार्य प्रति सर्वज्ञसर्वशित्वस्वभावत्वविशिष्ट-धातिकर्मावरणक्षयः कारणम्, तथा च सर्वज्ञानदर्शन-स्वभावत्व-विशिष्टावरणक्षयरूपकारणसत्त्वेऽप्रतिहतवरज्ञानदर्शन-धरत्वरूपकार्यस्य सत्त्वमन्वयः, सर्वज्ञानदर्शन स्वभावत्वविशिष्टावरण क्षयरूप कारणाऽसत्त्वे, अप्रतिहतवरज्ञानदर्शनधरत्वरूपकार्यस्याभाव:-व्यतिरेक एवमन्वयव्यतिरेकसहकृत-पूर्वोक्त कार्यकारणभावनिश्चयः कार्यः ।
तथा च सर्वज्ञानदर्शनस्वभावत्वाभावे, अप्रतिहतज्ञानदर्शनधरत्वाभावः, यतो निरावरणा अपि धर्माऽस्तिकायादयः सर्वज्ञानदर्श नस्वभावरहिताः सन्तः, अथवा एकेन्द्रियादयः, अपेक्षया सर्वज्ञानदर्श नस्वभावा अपि निरावरणत्वरहिता:-सावरणत्वसहिताः अप्रतिहतवरज्ञानदर्शनधरा न भवन्ति, हेतुविशेषतयोपन्यस्तं सर्वज्ञस्वभावत्व साधयति (उपपादयति) सार्वदिकसर्वज्ञसर्वदर्शित्वरूप-सर्वज्ञस्वभावत्वं भावयति च महासामान्यनामकसत्तालक्षणेन, सामान्येन सर्वधर्मास्तिकायादिज्ञेयानां, अवबोध-सिद्धिर्भवति (सामान्यहेतुक-सर्वज्ञेयविषयबोधसिद्धिः- सामान्यज्ञानज्ञाप्यसर्वज्ञ य-विषयक-बोधसिद्धिः) एकस्मिन , अपि घटादौ सद् पे परिच्छिन्ने तद्र पानतिक्रमात्, शुद्धसंग्रहनयाऽभिप्रायेण सर्वसत्तापरिच्छेदः सिद्धयति. (घटादावेकस्मिन् सद्रूपेण घटादिः सन सन सन , अस्ति,) ज्ञानस्य विषये सति, 'घटादिः सत्त्वधर्मविशिष्टोऽस्ति' इति ज्ञानभवनेन सद रूपाऽभेदद्वारा शुद्धसंग्रहनयाऽभिप्रायेण, तथा च विशेषं गौणीकृत्य केवलं सामान्यमेव प्रधानीकृत्य, सामान्यधर्मेण यो नयः सर्ववस्तूनि एकस्मिन्वस्तुनि संगृहणाति, स संग्रहनयो, यथा कोऽपि सदगृहस्थो जेमनाय स्थितः सूद कथयति 'भोजनमानय' अर्थात्सूदः भोजनाय कृतानि
191