________________
ललितविस्तरा-सटीका वस्तूनि ददाति (पुरस्करोति) तत्र भोजने भोज्यानि वस्तुनि सर्वाणि संगद्यन्ते तानि संग्रहनयापेक्षया तथा सत्त्वनामकधर्मेण सर्ववस्तूनि 'सद रूपे समाविशति संग्रहनयः । एवं च सामान्य जातिः तज्ज्ञानं वा लक्षणं स्वरूपं विषयो वा यस्या इति व्युत्पत्तिमती सामान्यलक्षणा, सत्त्वादिरूपा वा सज्ज्ञानरूपा वा। सा चाश्रयाणां सत्त्वविशिष्टसकलपदार्थानामलौकिक-प्रत्यक्ष उपयुज्यते । अर्थात् सामान्यलक्षणाप्रत्यासत्या-घटे सत्त्वरूपसन्निकर्षण 'सर्वे भावा सन्तः' इत्याकारक सकलसद विषयकज्ञानमुत्पद्यते, अस्या इदमेव फलं 'एकस्मिन् पदार्थ सत्वविषयकज्ञानजननेन सत्वरूपेण सकलपदार्थ ज्ञान-भवतीति.
ननु पूर्वोक्तविवेचनतो दृश्यत्वरूपकेवलसत्ताया एव-सामान्यस्यैव बोधसिद्धत्वेन ज्ञेयरूपविशेषाणामवबोधोऽपूर्ण एव स्यात् तर्हि सर्वावबोध: कथमिति चेत् कथ्यते, 'तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु'
प्रमाणस्य विषयः सामान्य (एकाकारमेकशब्दवाच्यमिति प्रतीतिकारकं सामान्यं) विशेषश्च (विजातीयपदार्थभ्यः सर्वथा भिन्नत्वभानं कारयति यः स विशेष:) एवमुभयात्मकं वस्तु, अस्तीति वचनेनावबोध-उपयोगस्य विषयः सामान्य-विशेषात्मकः। तथा च साक्षात्काररूपदर्शनोपयोगेन, सामान्यमात्रविषयकबोधसत्वेऽपि सामान्यस्वरूपेण सहाभिन्नत्वेऽपि शुद्धसंग्रहनयाऽभिप्रायेण विशेषाणामपि बोधो भवति छद्मस्थोऽपि (एकनयापेक्षया) सर्वदा सर्वज्ञस्वभावविशिष्टो वरमस्तु, परन्तु सर्वनयसम्मत्या (संवादेन) तु घातिकर्मचतुष्टयक्षयो यदा भवेत्तदैव निरुपचरित-पारमार्थिक-यथार्थसर्वज्ञस्वभावता सिद्धा भवेत्, यतः ज्ञानक्रिययो गिपद्य (एककालवृत्तित्वं-एककालोपत्तिकत्वम् घातिकर्मक्षयरूपक्रिया-केवलज्ञानयोरेककालवृत्तिकत्वं-उत्पत्तिकत्वं) तदेव मोक्षस्य महान् मार्गः सामान्य-विषयकावबोधेनैव सर्वदर्शनस्वभावता सिद्धाऽर्थात् तदर्थ न प्रयत्नः कृतः । ..... - पूर्वोक्त हेतुगत-सर्वज्ञानदर्शनस्वभावतारूपविशेषणस्य सिद्धि-दर्शनाऽनन्तरं 'निरावरणत्व'रूपं विशेष्यस्य विचारणा
अनुमानप्रयोगश्चेत्थं अप्रतिहतवरज्ञानदर्शनधराः, सर्वज्ञानदर्शनस्वभावत्वे सति निरावरणत्वादित्यत्र विशेषणस्य सिद्धयनन्तरं निरावरणत्वरूपविशेष्यसिद्धयर्थं कथयति. निरावरणत्वं च ज्ञानावरणादि-घातिकर्मरूपस्यावरणस्य क्षयान्निर्मूलप्रलयात्-सत्ताया
192