________________
ललितविस्तरा-सटीका
(सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थ ग्रहणं दर्शनं) क्षायिकत्वात् ज्ञानदर्शने वरे, अप्रतिहतवरज्ञानदर्शनधरा अर्हन्तो भगवन्तः परमेश्वराः प्रोच्यन्ते.
सर्वज्ञानदर्श नस्वभावत्त्वे सति निरावरणत्वं, अप्रतिहतवरज्ञानदर्शनधरत्वं, अप्रतिहतवरज्ञानदर्शनधरस्य लक्षणं,
अर्थात् सर्वज्ञानदर्शने आत्मनः स्वभावरूपे नयान्तरस्याऽभिप्रायेण (शुद्धसंग्रहनयापेक्षया) जीवमात्र सदा सर्वज्ञानदर्शनस्वभावं वर्तते, तथापि तत्राऽतिव्याप्तिवारणाय निरावरणत्वरूपं विशेष्य देयं, अतएव निरावरण (क्षायिक) अप्रतिहतवरज्ञानदर्शनधराभगवन्त इति बोधो भवति.
लक्षणमीमांसा = यद्यवं कथयेत् यदुत 'ये ये निरावरणास्ते, अप्रतिहतवरज्ञानदर्शनधराः' इत्युक्त धर्मास्तिकायादिषु आवरणशून्यत्वेन-लक्ष्यभिन्नधर्मास्तिकायादौ लक्षणस्याऽतिव्याप्तिरागच्छेत्तदाऽतिव्याप्तिदोषवारणाय 'सर्वविषयकज्ञानदर्शन' स्वभावतो सतीति विशेषणं देयं,
यद्यवं कथयेत् यदुत ये ये 'सर्वविषयकज्ञानदर्शनस्वभावास्ते, अप्रतिहतवरज्ञानदर्शनधरा' इत्युच्यमाने शुद्धसंग्रहनयाभिप्रायेण सार्वदिक-सर्वविषयक-ज्ञानदर्शनस्वभावास्तु एकेन्द्रियाद्या जीवा अपि-लक्ष्यभिन्नैकेन्द्रियादि-जीवा अप्रतिहतवरज्ञानदर्शनधरा भवेयुरर्थात् तत्रातिव्याप्तिः स्यात्,
तदिष्टं सर्वनयसंमतं नास्त्यर्थात्, अप्रतिहतवरज्ञानदर्शनधरत्वाभाववत्सु लक्ष्यभिन्नकेन्द्रियादि-जीवेषु नयान्तराभिप्रायेण सर्वविषयकज्ञानदर्शनस्वभावत्वलक्षणस्यातिव्याप्तिरस्ति, अत एवैतद्दोषनिवारणाय- 'निरावरण' त्वरूपं विशेष्यपदं निहितमस्ति, अर्थात, नयान्तराभिप्रायेणैकेन्द्रियादी सर्वविषयकज्ञानदर्शनस्वभावत्वस्य सत्त्वेऽपि 'निरावरणत्वं' नास्त्येव, सावरणत्वं विद्यतेऽत एव लक्षणं निर्दुष्टमेव. . अनुमानप्रयोगश्चेत्थं = भगवन्तः (पक्षः) अप्रतिहतवरज्ञानदर्शनधराः (अत्राप्रतिहतवरज्ञानदर्शनधरत्वं साध्यं), नयान्तराऽभिप्रायेण सार्वदिक-सर्वज्ञ-सर्वदर्शित्वे सति निरावरणत्वं (हेतुः) (१) अत्राऽनुमाने हेतुप्रयोगो द्विधा भवति-सत्येव साध्ये हेतोरूप
190