________________
ललितविस्तरा-सटीका
इष्ट (ईश्वरोपयोगि) तत्त्वविषयकदर्शनवादिनः केचित् बौद्धा इष्टेश्वरमथवा तीर्थ करान् इष्टतत्त्वभिन्न-अन्यतत्त्वे प्रतिहतज्ञानदर्शनधरत्वेन मन्यन्तेऽर्थात्, इष्टतत्त्वभिन्नअन्यतत्त्वविषयाणां अज्ञातृत्वेन-अद्रष्टुत्वेनैव मन्यन्ते,
एतेषां प्रमाणभूतं वचनं दर्शयति 'तत्त्वमिष्टं तु पश्यतु' (सर्व पश्यतु वा मावा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे ॥ सम्पूर्णश्लोकपाठः) अर्थादीश्वरः सर्वभावान् पश्यतु वा न वा, तथापीष्टं तत्त्वं पश्यतु इत्येतावदेव पर्याप्तं यदि दूरदर्शी प्रमाणभूतः स्यात्तदा गृध्रानुपास्महे, एवं रहस्यमीहशं यत् केचिद्बौद्धा ईश्वरं धर्मनायकतीर्थ करत्वादिरुपेण मन्यन्ते, सकलद्रव्यपर्यायविषयद्रष्टुज्ञातृत्वादिरूपेण न मन्यन्ते ।
(बोद्धभेदानां संक्षिप्तरूपरेखा = (१) वैभाषिका:-घटपटादिबाह यरूपं च ज्ञानाद्यान्तररूपं वस्तुतत्त्वं सत्यमिति मन्यन्ते (२) सौत्रान्तिकाः-यद्यप्येते बाह याभ्यन्तररूक द्विधा तत्त्वं मन्यन्ते तथापि बाह यपदार्थानां प्रत्यक्ष न मन्यन्ते, अनुमानेन बाह यपदार्थेज्ञानमस्तीति वदन्ति, घटपटादिनानाऽऽकारवज्ज्ञानमस्ति, च ज्ञानेनाऽनेन बाह यपदार्थाः सन्ति, एवमनुमाय मन्यन्ते (३) योगाचारा:-बाह्यपदार्थान् सर्वथाऽपलपन्ति, अर्थाद् बाह यपदार्था न सन्ति, एवं मन्यन्ते, केवलमान्तररूपज्ञाननामक तत्त्वमेवाऽस्तीति मन्यन्ते, ग्राह्यग्राहकरूपज्ञानमात्रं प्रतिभासन्ते वस्तुतस्तु बाह यपदार्था न सन्तीति सिद्धान्तयन्ति, (४) माध्यमिकास्तु सर्व शून्यमस्तीति वदन्ति.
सर्व शून्यमिति वाद स्वोकुर्वते, सर्वथा प्रमाणाभावेन प्रमेयस्याभावः, अतः सर्व शून्य-अभावरूपं)
"ईश्वरइष्टतत्त्वविषयकज्ञानदर्शनवानस्ति, सर्वपदार्थ विषयक - ज्ञानदर्शनवान् नास्ति' एवं विधस्य बौद्ध विशेषमतस्य खण्डनेच्छया क्रियमाणं प्रकृतपदस्या निरूपणम्
"अप्रतिहतवरज्ञानदर्शनधरेभ्यो" नमः । अप्रतिहते-सर्वत्राऽस्खलिते (क्षायिकत्वाद ) वरे-प्रधानज्ञानदर्शने-विशेषसामान्याऽवबोधरूपे धारयन्तीति समासः । तथा च पूर्वोक्तपूर्वपक्षस्य खण्डनेच्छया सूत्रकारः कथयति = 'अप्रतिहतवरज्ञानदर्शनधरेभ्यो नमः' अर्थात् सर्वत्रव्यापकज्ञानं-(प्रधानविशेषमुपसर्जनीकृतसामान्यमर्थ ग्रहणं ज्ञानं) दर्शनं
189