________________
ललितविस्तरा-सटीका
सिद्धयर्थमाह-"निरावरणत्वं च" प्राग्हेतुतयोपन्यस्तम् "आवरणक्षयाद्" आवरणस्य-ज्ञानावरणादेः क्षयात-निर्मूलप्रलयात् । ननु जोवाविभागीभूतस्यावरणस्य क्षय एव दुरुपपाद इत्याशङक्याह-क्षयश्च उक्तरूप: "प्रतिपक्षसेवनया" मिथ्यादर्शनादीनां सामान्यबन्धहेतूनां ज्ञान-प्रत्यनीकान्तरायोपघातादीनां च विशेषहेतूनां प्रतिपक्षस्य-विरोधिनः सम्यग्दर्शनादेानबहुमानादेश्च सेवनया-अभ्यासेन प्रयोगोऽत्रयद्यस्य कारणेन सह विरुध्यते तत्तद्विरुध्यमानसेवने क्षीयते, यथा रोमोद्ध षणादिकारणे शोतेन विरुध्यमानस्याग्नेरासेवने रोमोद्धषणादिविकारः, विरुध्यते चावरणहेतुभिमिथ्यात्वदर्शनादिभिः सह सम्यग्दर्शनादिगुणकलाप इति कारणविरुद्धोपलब्धिः । नन्वतीन्द्रियत्वादावरणक्षयस्य कथं तेन हेतोः प्रतिबन्धसिद्धिरित्याशडक्याह
- "तत्तानवोपलब्धेः" तस्य-आवरणस्य “तानवं" तुच्छभावो देशक्षयलक्षणप्रत्ययेन प्रतिपक्षसेवनया तस्योपलब्धः, स्वानुभवादिसिद्धज्ञानादिवृद्धयन्यथानुपपत्तेः प्रतिबन्धसिद्धिः, नच वक्तव्यं-प्रतिपक्षसेवनया तानवमात्रोपलब्धेः कथं सर्वावरणक्षयनिश्चय इति ?, ये यतो देशतः क्षीयमाणा दृश्यन्ते ते ततः प्रकृष्टावस्थात् सम्भवत्सर्वक्षया अपि, चिकित्सासमीरणादिभ्य इव रोगजलघरादय इति, एवं च जीवाविभागीभूतस्यापि चिकित्सातो रोगस्येवावरणस्य प्रतिपक्षसेवनया क्षयोऽदुष्ट इति यत्किंचिदेतत-यदुतावरणक्षय एव दुरुपपाद इति । अथ प्रकृतसिद्धिमाह-"तत्क्षये च" आवरणक्षये च सर्वज्ञानं-सर्वज्ञयावबोधः, कुत इत्याह-"तत्स्वभावत्वेन" स्वभावो ह्यसौ जीवस्य यदावरणक्षये सर्वज्ञानं प्रतीयते, एतदेव भावयति-"दृश्यते च" स्वानुभवानुमानादिभिः "आवरणहानिसमुत्थो" निद्राद्यावरणक्षयविशेषप्रभवो "ज्ञानातिशयो" ज्ञानप्रकर्षः, ततः किमित्याह. न चास्य-ज्ञानातिशयस्य प्रकृष्टरूपस्य 'कश्चित्' ज्ञेयविशेषः 'अविषयः' अगोचरः, सर्वस्य सतो ज्ञेयस्वभावानतिक्रमात, केवलस्य निरावरणत्वेनाप्रतिस्खलितत्वात, 'इति' एवमुक्तयुक्त्या 'स्वार्थानतिल वनमेव' स्वार्थ:-प्रकृतसूत्रस्याप्रतिहतवरज्ञानदर्शनधरत्वं तस्यानतिलङ्घनमेवअनतिक्रमणमेव, प्रतिहतवरज्ञानदर्शनधरत्वे हि भगवतां वितथार्थतया सूत्रस्य स्वार्थातिलङ्घनं प्रसजतीति, "इत्थं चैतद्" इत्थमेवाप्रतिहतवरज्ञानदर्शनप्रकारमेव "एतद्" अहंल्लक्षणं वस्तु, विपक्ष बाधामाह-"अन्यथा" उक्तप्रकाराभावे "अविकलपरार्थसम्पादनाऽसम्भवः" अविकलस्य-परिपूर्णस्य परार्थस्य-परोपकारस्य भगवतां घटनाऽयोगः, कुत इत्याह-“तदन्याशयाद्यपरिच्छेदात्" तदन्येषां पुरुषार्थोपयोगीष्टतत्वविलक्षणानामाशयादीनाम- अभिप्रायद्रव्यक्षेत्रकालभावानामपरिच्छेदाद्-अनवबोधात् , सकलहेयपरिज्ञाने ह्यविकलमुपादेयमवबोद्ध शक्यं, परस्परापेक्षात्मलाभत्वाद्ध योपादेययोः, ह्रस्वदीर्घयोरिव पितृपुत्रयोरिव वेति सर्वमनवबुध्यमानाः कथमिवाविकलं परार्थ सम्पादयेयुरिति. टीका : अवतरणिका - यथा जना तीर्थकरान् धर्मदधर्मदेशकादिरूपेण मन्यन्ते तथा केचिद् बौद्धा अपि स्वेष्टदेवं मन्यन्ते, परन्तु सर्वपदार्थविषयक-ज्ञातृत्वेन रूपेण न मन्यन्ते, एनं विषयं सप्रमाणं स्पष्टयन्ति
एते तीर्थङकराश्च कैश्चिदिष्टतत्त्वदर्शनवादिभि बौद्धभेदैरन्यत्र प्रतिहतवरज्ञानदर्शनधरा एवेष्यन्ते “तत्त्वमिष्टं तु पश्यतु" इति वचनाद्,
188