________________
ललितविस्तरा - सटीका
न चास्य कश्चिदविषय इति स्वार्थानतिलङ्घनमेव, इत्थं चैतद्, अन्यथा अविकलपरार्थसम्पादनासम्भवः, तदन्याशयाद्यपरिच्छेदादिति सूक्ष्मधिया भावनीयं, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति, अप्रतिहतवरज्ञानदर्शनधराः २५ ॥ एतेऽप्याजीविकनयमतानुसारिभिर्गोशालशिष्यैस्तत्त्वतः खल्वव्यावृत्तच्छमान एवेष्यन्ते, "तीर्थनिकारदर्शनादागच्छन्तीति" वचनाद्, एतन्निवृत्त्यर्थमाह
पं. "तत्वमिष्टं तु पश्यत्विति - " सर्वं पश्यतु वा मा वा, तत्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शि चेदेते गृधानुपास्महे ॥ १॥ इति सम्पूर्णश्लोकपाठः, "सर्व्वज्ञानेत्यादि" सव्वंज्ञान दर्शनस्वभावत्वेन नयान्तराभिप्रायेण सार्वदिके सर्वज्ञसर्वदशित्वरूपे सति "निरावरणत्वेन" घातिक्षयात्, अप्रतिहतवरज्ञानदर्शनधरा भगवन्तः, व्यतिरेकमाह
"अन्यथा” उक्तप्रकारव्यतिरेकेण "तस्वायोगात् " अप्रतिहतज्ञानदर्शनधरत्वायोगात् यतो न निरावरणा अपि धर्मास्तिकायादय उक्तरूप विकलाः सन्त एकेन्द्रियादयो वा उक्तरूपयोगेऽप्यनिरावरणाः प्रकृतसूत्रार्थभाज इति हेतु विशेषणसिद्धयर्थमाह - " सर्वज्ञस्वभावत्वं च " हेतु विशेषणतयोपन्यस्तं " सामान्येन " महासामान्यनाम्ना सत्तालक्षणेन "सर्वावबोधसिद्ध : " सर्वेषां धर्मास्तिकायादिज्ञेयानामवबोधसिद्ध ेः-परिच्छेदसद्भावादिति, ज्ञेयवस्तुप्रतिबिम्बसङ्क्रमस्य तु तदाकारत्वे ज्ञानस्याभ्युपगम्यमाने अनेकदोषप्रसङ्गात् व्याप्त्यनुपपत्त े:, धर्मास्तिकायादिष्वमूर्त स्वेनाकाराभावे प्रतिबिम्बायोगात्, तस्य मूर्त्त धर्मत्वात्, तथा तत्प्रतिबद्धवस्तुसङ्क्रमाभावेऽभावात्, न ह्यङ्गनावदनच्छायाणुसङ क्रमातिरेकेणाऽऽदर्शके तत्प्रतिबिम्बसम्भवोऽस्ति, अम्भसि वा निशाकरबिम्बस्येति, अन्यथाऽतिप्रसङ्गात्, उक्त च परममुनिभिः - "सामा तु दिया छाया, अभासुरगया निसं तु कालाभा । सच्चेव भासुरगया, सदेहवण्णा मुव्वा ||१|| जे आयरसस्संतो देहावयवा हवंति संकंता । तेसि तत्थुवलद्धी पगासजोगा न इयसि ।। २ ।। इत्यादि चित्रास्तरणाद्यनेकवस्तुग्रहणावसरे चंकत्रानेक प्रतिबिम्बोदयासम्भवात्, सम्भवे वा प्रतिबिम्बसाङ्कर्योपपत्तेः, तदनुसारेण परस्परसङ्कीर्ण वस्तुप्रतिपत्तिप्रसङ्गादिति, एकस्मिन्नपि घटादी सद्रूपे परिच्छिन्ने तद्रूपानतिक्रमात् शुद्धसङग्रहनयाभिप्रायेण सर्वसत्तापरिच्छेदः सिध्यति । आहसत्तामात्रपरिच्छेदेऽपि विशेषाणामनवबोघात् कथं सर्व्वावबोधसिद्धिरित्याशङ्कयाह
-
"विशेषाणामपि " न केवलं सामान्यस्य " ज्ञेयत्वेन" ज्ञानविषयत्वेन "ज्ञानगम्यत्वात्" ज्ञानेन - अवबोधरूपेणावबोधनीयरूपत्वात्, यद्य ेवं ततः किमित्याह - " न च" नैव "एते" विशेषाः “साक्षात्कारं" दर्शनोपयोगम् " अन्तरेण" विना, तेनासाक्षात्कृता इत्यर्थो "गम्यन्ते" बुध्यन्ते, कथमित्याह"सामान्यरूपानतिक्रमात् " सामान्यरूपातिक्रमे ह्यसद्रूपतया खरविषाणादिवदसन्त एव विशेषाः स्युरिति, ' इदमुक्त' भवति - दर्शनोपयोगेन सामान्यमात्रावबोधेऽपि तत्स्वरूपानतिक्रमात् सङ्ग्रहनयाभिप्रायेण, विशेषाणामपि ग्रहणाच्छद्यस्थोऽपि सर्वदा सर्वज्ञस्वभावः स्यात्, घातिकर्म्मक्षये तु सर्वनयसंमत्या निरुपचरितैव सर्वज्ञस्वभावता, ज्ञानक्रियायोगपद्यस्यैव मोक्षमार्गतेति, सर्वदर्शनस्वभावता तु सामान्यावबोधत एव सिद्ध ेति न तत्सिद्धये यत्नः कृत इति । इत्थं विशेषणसिद्धिमभिधाय विशेष्य-:
187