________________
ललितविस्तरा - सटीका
८/१/५/० प्राकृतसूत्रवशादात्वं अथवा चतुर्दिग्धार' चतुरन्तं चक्रमुच्यत दानतपः शीलभावना - चतुर्धारं धम्मं चक्रमिदं ।। श्री धर्मसंघाचार - विधितो भावोऽत्र गृहीत )
(
यथा स्तोतव्यसम्पदः, सामान्यहेतुरूपा द्वितीया संपद्, विशेषहेतुरूपा तृतीया सम्पत्, सामान्योपयोगरूपा चतुर्थी संपत्, पंचमी उपयोगसंपद एव हेतुसंपत् तथा विशेषोपयोगरूपा षष्ठी संपत्, तथा च प्रथम - स्तोतव्यसंपद एव विशेषोपयोग - प्रयोजनरूपा 'धम्मदयाणं' पदत आरभ्य 'धम्मवरचाउरतचक्क वट्टीणं' पर्यन्त - पंचपदवती षष्ठी विशेषोपयोग सम्पदस्ति, अर्थात्, अर्हतां धर्मदत्व - धर्मदेशकत्व - धर्मनायकत्व-धर्मसारथित्वधर्मवरचतुरन्तचक्रवर्तित्वरूपप्रकारैविशेषत उपयोगो भवत्यत एषा संपद विशेषेणोपयोगसंपद्रूपेण कथ्यतेऽर्थात् तीर्थंकरदेवा धर्मक्ष ेत्रे किं किं कार्यं कुर्वते, तत्सन्दर्शनार्थं,
अस्यां सम्पदि पंचभिः पदैः वर्णनं कृतं, अर्हतां, उपयोगिता विशिष्टकारणान्यपेक्ष्य मता, श्री अर्हन्तः सर्वविरति- देशविरत्यादिरूपचारित्र - धर्मस्य दातृत्व_देशकत्व - स्वामित्व - सारथित्व - वरचतुरन्तचक्रवति त्वावच्छिन्नैः प्रकारै विशिष्टोपयोगिता, सकल मुमुक्षूणां मनुष्याणामात्यन्तिकै कांतिक कल्याणमालाकारिणी वर्त्ततेऽतः • स्तोतव्या अर्हन्तो भगवन्तो भवन्ति.
- शक्रस्तवस्य पंचविंशतितमस्य 'अप्पडिहयवरनाणदं सणधराणं' पदस्य विवरणम् - एते च कैश्विदिष्टतत्वदर्शनवादिभिर्बोाद्धभेदैरन्यत्र प्रतिहतवरज्ञानदर्शनधरा एवेष्यन्ते " तत्त्वमिष्टं तु पश्यतु" इतिवचनाद्, एतन्निराचिकीर्षयाऽऽह - "अप्रतिहतवरज्ञान_दर्शनधरेभ्यः " अप्रतिहते - सर्वत्राप्रतिस्खलिते क्षायिकत्वाद्वरे - प्रधाने ज्ञानदर्शने - विशेष - सामान्यावबोधरूपे धारयन्तीति समासः, सर्वज्ञानदर्शनस्वभावत्वे निरावरणत्वेन, अन्यथा तत्त्वायोगात्, सर्वज्ञस्वभावत्वं च सामान्येन सर्वावबोधसिद्धेः,
विशेषाणामपि ज्ञेयत्वेन ज्ञानगम्यत्वात् न चैते साक्षात्कारमन्तरेण गम्यन्ते, सामान्यरूपानतिक्रमात्, निरावरणत्वं चावरणक्षयात्, क्षयी च प्रतिपक्षसेवनया,
तत्तानवोपलब्धेः, तत्क्षये च सर्वज्ञानं तत्स्वभावत्वेन दृश्यते चावरणहानिसमुत्थो
ज्ञानातिशयः
186