________________
ललितविस्तरा-सटीका
धर्माराधनत आत्मधर्मः प्रादुर्भवति, एतावानपि नापितु (प्रत्युत) परंपरया मोक्षो भवति. परिग्रहसंज्ञाव्याघाताय दानं समर्थ, मैथुन-संज्ञा-मथनाय शीलगुणः समर्थ :, आहारसंज्ञा परिहाराय तपोधर्मः समर्थः, भयसंज्ञा भङगाय मैत्र्यादिभावनाप्रधानो भावधर्मः)
चारित्रादिधर्मवरचतुरन्तचक्रेणतेन, भगवन्तो वर्तन्तेऽर्थात् पूर्वे कथितवणितविशिष्टधर्मदरचक्रेण वर्तन्तेऽतः 'धर्मवरचतुरन्तचक्रवर्तिनः' भगवन्तः कथ्यन्ते, तथाभव्यत्वनियोगतो ("योग्यता चेह विज्ञेया, बीजसिद्धयाद्यपेक्षया, आत्मनः सहजा चित्रा, तथाभव्यत्वमित्यत:" यो. वि. २७८ । 'भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः, तथा-भव्यत्वं चैतदेव कालनयत्यादिना प्रकारेण वैचित्र्यमापन्नं) तथा (तीर्थकरत्वसंपादकत्वेन) भव्यत्वस्य नियोगतः (आज्ञातः) वरबोधिलाभादारभ्य सिद्धिप्राप्तिपर्यन्तं यावत् तथा तथा (तत्तत्प्रकारावच्छिन्न-अन्यान्यप्रकारावच्छिन्न) औचित्येन-उचिततापूर्वकप्रवृत्तिकारकत्वेन, एवमेव वर्तनात्-वरबोधावपि धर्मचक्रावच्छिन्नवर्तनं तत आरभ्य सर्वत्र धर्मलाभे तथातथौचित्येनाविच्छेदेन सिद्धिप्राप्तिपर्यन्ते धर्मचक्रावच्छिन्न-वतित्वंवर्तनं वर्तते इति. तथा च यद्यपि सर्वभव्यात्मनां भव्यत्वं समानं तथापि प्रत्येकभव्यात्मनां मोक्षः समानकाले समानसामग्रीतो न भवति. अर्थात् प्रत्येकभव्यानां 'तथाभव्यत्व' भिन्न भिन्नं वर्तते, परन्तु श्रीमज्जिनेश्वराणामात्मनां सहजतथाभव्यत्वं सर्वभव्येभ्यो विशिष्टकोटिकं, यथा यथा श्रीमतां सहजतथाभव्यत्वं तत्तत्सामग्रीवशतः परिपक्वं भवत, तथा तथा श्रोमतां वैशिष्टयं बहिराविर्भवति, तीर्थ करपदहेतुभूतवरबोधिलाभानन्तरं जिनात्मानः प्रादुर्भावापेक्षया सर्वथा परोपकार-व्यसनिन उचितक्रियाकारकाः विश्वोद्धारकाः सफलारम्भिन इत्यादिपूर्वोक्तगुणगणसंपन्नाः सन्तोऽपि 'सर्वजीवान जिनशासनरसिकान संपादयामीति भावदयान्तरहसोल्लसितमानसमहोदधयः', विशिष्टभावदयाया वर्धमानरसेन तीर्थकरनामकर्म निकाचयन्ति, एवं तथा तथौचित्यावच्छिन्नाचारे वर्तनेन सिद्धिप्राप्तिपर्यन्त भगवन्तो 'धर्मवरचातुरन्तचक्रवर्तिन उच्यन्ते, तदेवमेतेन-धर्मवरचतुरन्तचक्रेण वर्तितुं शीला धर्मवरचतुरन्तचक्रवर्तिनः ।। (त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोऽन्ता (लवणसमुद्रप्राप्ताः) स्तेषु प्रभुतया भवाश्चातुरन्ताः चतुरन्तस्वामिन एवं विधाये चक्रवर्तिनस्ते चातुरन्तचक्रवत्तिनः, धर्मस्य वरा:-श्रेष्ठाः चतुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः, इति कल्पसूत्रसुबोधिकायाम् ।। अत्र 'समुद्ध्यादा वा' - इति हैम.
185