________________
ललितविस्तरा - सटीका
विवर्णो भवेत्तदा तत्सुवर्णमशुद्ध, धर्मस्य तापपरीक्षायां धर्मः शुद्ध उत्तीर्णो न स्यात्तदा कषच्छेदौ निरर्थं कौ, वस्तुषु प्रतिक्षणं परिवर्तन-चक्रं चलति, यत्सुवर्णं कुण्डलाकारे परिवर्तितं, तत्कुण्डलं स्तोकवेलानन्तरं कण्ठिकाकारे परिवर्तित तदा पर्यायाः परिवर्त्तन्ते तथापि सुवर्णद्रव्यं द्रव्यत्वेन नित्यत्वेन, अखण्डितमपरिवर्तित तिष्ठति, तथा यस्मिन्नागमे द्रव्यार्थिकंनयापेक्षया नित्य, पर्यायार्थिकनयापेक्षयाऽनित्यं चेति जीवादिपदार्थ मात्रस्य वर्णनं कृतं स्यात् स धर्मस्तापशुद्धो निगद्यते, ताशे धर्मे च विधिनिषेधमार्गसाचि व्यकारिण्यो धार्मिकक्रिया घटन्ते नान्यथेति,
,
(अथवा क्रयणहननपचनादिरूपत्रिकोट्याऽपि धर्मचक्रमिद विशुद्धमिति ) नारकतिर्यग्नरामरस्वरूपगति - विशेष - चतुष्टयस्योच्छेदेन गति - चतुष्टयस्यान्तहेतुत्वाच्चतुरन्तं चतुभिर्वा दानशीलतपोभावनानामकैर्धर्मे : (संज्ञाचतुष्टयविरोधिभिः) श्रोतृगणापेक्षया प्रक्रमात - प्रकरणवशात् भवान्त - भवस्यान्तो यस्मिंस्तत् धर्मवरचक्रं चतुरन्तत्वेन प्रख्यायते, यथा चक्रि - चक्रं भयङकरबाह्य शत्रूनामुच्छेदात् कथ्यते, चक्रमिव चक्र अतिरौद्रमहा-मिथ्यात्वादिरूपभाव ( आभ्यन्तर ) शत्रूणां लवनादुच्छेदात् तथाचानेन धर्मव रचतुरन्त - चक्रेण मिथ्यात्वादिरूपां भावशत्रवः लूयन्ते - उच्छिद्यन्ते इति प्रतीतमेव ।
"
तथा च भगवन्तो वा भगवद्भक्ता धर्मवरचक्रेण मिथ्यात्वाद्यान्तरारीणां समूलमून्मूलनं कुर्वन्त्येव, कथमिति चेत् कथ्यते दानादीनां पुनःपुनरभ्यासतः - सतत-क्रियासमभिहारतः, न ददाति सद्धनं, न त्यजेत्लब्धान् कामानिति रूप आग्रह: ( परिग्रहः - मूर्च्छा-लोभादिपर्यायरूपः) ततो विहितदानशीलतपोभावनाऽभ्यासपरायणस्य पुंसः आग्रहस्य (परिग्रहसंज्ञारूपाया:) मूर्च्छाया निवृत्तिः - उपरम:, (मैथ नसंज्ञायाः निवृत्तिः, आहारसंज्ञा - निवृत्तिः, भयसंज्ञा - निवृत्तिः ) यथासंभवं शेषदोषनिवृत्ति - आदेः सिद्धिर्भवति इत्येतन्महात्मनां स्वानुभवसिद्धमेवेति ।
ט
(आहारभयमैथ नपरिग्रहसंज्ञक संज्ञाचतुष्टय अनादितो जीवेन सह संलग्न वर्त्तते, जीवः संज्ञाभिः सहैकतां गतः, स एवं जानाति मदीया सहजा गुणा इति, तासु प्रवर्त्तते । संज्ञाचतुष्के या या प्रवृत्तिः सा सा बहिरात्मभाव एव एवं जीवस्य स्वस्य न भासते, औदयिकभावे वर्त्तमानां जीवस्येमां- अनाद्यशुद्धां प्रवृत्ति, क्षायोपशमिकादिरूपे परावर्त्यं शुद्धाचारमय कारकश्चतुर्धा धर्मो जिनेश्वरैः कथितोऽस्तिः दानादिचतुर्विध
184