________________
ललितविस्तरा-सटीका
पं. :- " त्रिकोटिपरिशुद्धतयेति" तिसृभिरादिमध्यान्तादिसंवादलक्षणाभिः कषच्छेदतापरूपाभिर्वा कोटिभि :- विभागैः परिशुद्धो निर्दोषो यः स तथा तद्भावस्तत्ता तया, कषादिलक्षणं चेदम्पाणवहाईयाणं, पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं, जो उ विही एस धम्मकसो ॥१॥ बज्झाणुट्ठाणाणं, जेण न बाहिज्जए तयं नियमा । संभवइ य परिसुद्ध, सो पुण धम्मंमि छेओत्ति ॥२॥ जीवाभाववाओ, बंधाइपसाहगो इहं तावो । एएहिं सुपरिसुद्धो, धम्मो धम्मसणमुवेइ ||३|| "आग्रहनिवृत्त्यादिसिद्ध ेरिति" आग्रहो मूर्च्छा लुब्धिरिति पर्यायाः, ततो विहितदानशीलतपोभावनाभ्यासपरायणस्य पुंसः आग्रहस्य - मूर्च्छाया निवृत्तिः- उपरमः, आदिशब्दाद्यथासम्भवं शेष दोष निवृत्तिग्रहस्तस्याः “सिद्ध ेः " भावात् ॥
टी. :- यथा धर्मदा - धर्मदेशका - धर्मनायका - धर्मसारथयः, अर्हन्तो भगवन्तः सन्ति तथा धर्मवरचतुरन्तचक्रवर्तिनः सन्ति, अर्थाद् धर्मवरचतुरन्तचक्रवर्तिभ्योऽर्हद्द्भ्यो भगवद्भ्यो नमोऽस्तु, एतत्पदरूपसूत्रघटितधर्मपदेनाऽधिकृतचारित्रादिधर्मो ग्राह्यः, अर्थात् पूर्वोक्तचारित्रादिधर्म एव वरं प्रधानं यतो यथा चक्रिणश्चक्ररत्नं लोकेऽस्मिन् बाह्यशत्रुचक्रोपरि विजयसंपादनद्वारोपकारि, तथा धर्मचक्रं चकवर्त्तिचक्रापेक्षया लोकद्वयोपकारि, तद्धेतुना धर्मस्य प्रधानताऽथवा कपिलादिप्रणीतधर्मचक्रापेक्षया - कपिलादिभिः स्वस्वदर्शन कार रचित ( स्थापित ) स्वस्वदर्शनरूपधर्मचक्रापेक्षया धर्मचक्रमिदं प्रधानं, अथवा, धर्मवरचक्रेऽस्मिन् त्रिकोटिपरिशुद्धतया प्रधानता वर्त्तते ।
संवादस्वरूपत्रिकोटि ज्ञेया नियतफलप्राप्तिजनक
(धर्मचक्रे त्रिकोटिपरिशुद्धिरत्रादिमध्याऽवसानेषु sa संवादस्तु पूर्वापराविरोधित्व रूपसत्यसंभाषणमविरुद्धार्थज्ञानं, त्वादिज्ञेयम्, अथवा कषच्छेदतापरूपत्रिकोटिनिकषोत्तीर्णं - वीतरागशासनरूपधर्मचक्रं, तथाहि =
(१) कषशुद्धो धर्मः = प्राणिवधादिपापस्थानानां त्यागरूपो निषेधः च ध्यानाध्ययनादिधर्मस्थानानां विधानरूपविधिः, यत्र धर्मे स्यात् स धर्मो निगद्यते कषशुद्धः,
(२) छेदशुद्धो धर्मः = विधिमार्ग - प्रतिषेधमार्गयोरनुकूला या बाह्यक्रिया यत्र स धर्मः छेदशुद्धः, तया बाह्यशुद्धक्रिययाऽतिचारानाचाररहितत्त्वे विधिनिषेधमार्गे, उत्तेजनं क्रियते, यस्मिन् धर्मे पूर्वोक्तविधिप्रतिषेध- साहय्यकारि- शुद्धधार्मिकक्रियाया वर्णनं यथार्थतया कृतं स्यात्स धर्मरच्छेदशुद्ध:,
(३) तापशुद्धधर्मः = कषच्छेदयोराधारस्तापे स्थितोऽस्ति, यदि सुवर्णवर्णस्तापेन
183