________________
ललितविस्तरा-सटीका
परां श्रियमशिश्रियः ।। वी. तृ. प्र. श्लो. १४" फलं प्रति सम्यकप्रवर्त्तनं, फलोपधायकसाक्षात्कारणमस्ति ।
____ अथ कथमय नियमो यदुत-पालनफलमेव सम्यकप्रवर्तनम् अर्थात् सम्यकप्रवर्तनरूपकारणसत्तायां पालनरूपकार्य सत्तति कथमिति चेत् कथ्यते पालनरूपफलाभावे-पालननिष्फलत्वे, प्रवर्तननिष्ठसम्यगभावः (सफलज़नकता) प्रवर्त्त नस्य न भवति. निष्फलपालनत्वेन प्रवर्तननिष्ठफलजनकत्वाभाव एवैवं प्रवचनवेदिनो वदन्ति. अथ च स्वपरापेक्षित-चारित्रधर्मविषयक-सम्यकप्रवर्तनजन्यसम्यकपालनरूपेण साधनेन भगवत्सु धर्मसारथित्वरूपं साध्य प्रमाणितं भवति. ___ दमनयोगरूपेण तृतीयेन साधनेन भगवत्सु धर्मसारथित्वरूपसाध्यस्य सिद्धिः
यथा धर्मसारथित्वरुपं साध्य प्रति सम्यकप्रवर्तनसम्यक्पालने द्वौ हेतू स्तः, तथा तृतीयो हेतुः सर्वथा स्वायत्तीकरणरुपदमनयोगो ज्ञेयः, तथाहि सत्यमिदं हि स्वायत्तोकरण (वशीकरणक्रिया) विषयभूतो धर्मः (चारित्रादिधर्मः) तदावरणीय-मोहादिकर्मणः स्वायत्तीकरणेन, अव्यभिचारीकरणं (फलसंवादः) स्वकार्य नियोगः (सकलकर्मक्षयरुप स्वकार्ये योजना) स्वात्मीभावनयनं (स्वस्वभाव प्रति नयनमित्येतत् ).प्रकारत्रयावच्छिन्नत्वं ज्ञेयम्) तथाहि
(१) कर्मवशितया-चारित्रमोहादिकं कर्म वश्यमबाधकत्वेन येषां ते कर्मवशिनः, तद्भावः कर्मवशिता, तया, भगवतां चारित्रमोहादिकर्मोपरि सत्ताङकुशरुपास्ति, भगवतामुपरि-चारित्रमोहादिकर्मसत्तायाः किंचिदपि न चलति, भगवतां पुरतश्चारित्रमोहादिकर्माणि हतमर्माणि संजातानि यदा चारित्रमोहादिकर्माणि, अबाधकत्वेनायत्तानि (अधीनानि) भगवतां सन्ति, अत एव चारित्रादिधर्म:-कृतिविषयभूतः-विधानविषयभूतो धर्मः, नियताविसंवादि (अव्यभिचारि) फलजनकः, कथमिति चेत् कथ्यते -
फलप्राप्तिपर्यन्तं-यथाख्यातचारित्रप्राप्ति वा वीतरागताप्राप्तिपर्यन्तं, निवर्ति-विराममप्राप्य दमनव्यापार-क्रियाविषयो धर्मो दान्तो भवति.
(२) स्वकार्ये स्वाङगोपचयकारितया नीतः स्वात्मीभावं = स्वरूपधर्मस्य सकलकर्मक्षयकार्य विषये, अधिकृत (चारित्रादिधर्म) धर्मलाभं प्रति हेतुभूतानां स्वस्य
180