________________
मलित विस्तरा-सटीका
(धर्मस्य) अङगरूपाणां-मनुजत्वार्य देशोत्पन्नत्वादीनां य उपचय:-प्रकर्षः (उत्कृष्टकोटिकत्वं) तत्कारितया-तत्संपादकत्वेन रूपेण निजस्वभावरूपं-स्वात्मीभावं नीतः-प्रापितः, स्वात्मीभावे गमितोऽयं दान्तो धर्मः, कथमिति चेत् धर्मप्रकर्षस्य यथाख्यातचारित्वस्य (स्थिरतारूपेणात्मरमणतया) आत्मरूपत्वं कथ्यते ।
(३) ननु भगवतामित्थ धर्मसारथित्वभवने को हेतुः ? इति चेत्कथ्यते, क्षायोपशमिकादि-आदिपदेन क्षायिकादिरूपभावधर्मलाभे स्पष्टं भवत्येव न भवतीति नाऽपितु भवत्येव, किमिति चेदुच्यते 'एतत् ' धर्मसारथित्वं ‘एवं सम्यकप्रवर्तनयोगादिप्रकारेण, कस्मात्कारणादिति निगद्यते 'तदाद्यस्थानस्याऽपि' धर्मप्रशंसादिकालभावि-धर्माद्यस्थानरूप धर्मविशेषस्यापि, वरबोधेः प्राप्तौ तु किं पुनः ? 'एवं प्रवृत्त:' यतः धर्मसारथीभवनेन (करणेन) भगवतां प्रवृत्ति र्भवति, कुत इत्याह-'अवन्ध्यबीजत्वाद्' धर्मसारथित्वरूपकार्य प्रति अनुपहतशक्तिरेव कारणम् , न-हि सर्वथा कारणे बीजरूपेणाऽप्यसत् कार्यमुत्पद्यते इति वस्तुव्यवस्था.
__ (निश्चयनयस्याऽभिप्रायेण 'कारणे सदेव कार्य मुत्पद्यते' कारणे-उपादान-कारणे शक्तिरूपेण (बीजरूपेण-सत्तारूपेण-तिरोभावरूपेण) काय सदुत्पद्यते, अत एव कारणे सर्वथाऽसत् (अविद्यमानं) कार्य मुत्पद्यते नेति सर्वथा तादृशो नियमो वा वस्तुव्यवस्था वर्त्तते, -तथा च धर्मसारथित्वरूपफलोपधायककारण (अनुपहत-शक्तिककारण) रुप धर्मप्रशंसादिकालीनधर्मविशेषरुपधर्मस्याद्यस्थाने निश्चयनयेन धर्मसारथित्वमते न काचिद्बाधा. स्वरुपयोग्यतारुपेणापि न तु फलोपधायकतारुपेण. स्वरुपयोग्यताऽर्थात् कारण सत्ता च फलोपधायकताऽर्थात् कार्यसत्ता, कारणरुपेण-तिरोभावरुपेणास्तित्वमनादिकालतो भवति च कार्य रुपेणाऽस्तित्वं (प्रादुर्भावेण) यदा सहकारिसामग्रीप्राप्ति भवेत् तदाऽऽगच्छति (स्वरुपयोग्यत्वं-तदवच्छेदक-धर्मवत्त्व-जनकत्वादिकं यथा, अरण्यस्थस्याऽपि दण्डस्य घटं प्रति जनकत्वं स्वरुपयोग्यत्व, फलोपधायकत्व, फलनिषादकत्वम् ) सांख्यास्तु सत्कार्यवादिनः, नैयायिकाद्या असत्कार्यवादिनः, जैनास्तु अनेकान्तवादित्वेन, कार्य हि उपादानकारणे सर्वथा सत् न, सर्वथाऽसन्न परन्तु सदसदुभयात्मकं, अर्थात् कथंचित्सदेवोत्पद्यते, कथंचिदसदेवोत्पद्यते, अपेक्षया सच्चापेक्षयाऽसत् , शक्तिरुपेण सत्, कार्याप्रादुर्भावेणाऽसत् ) परमतस्य-बौद्धमतस्य साक्षिपूर्वक पूर्वोक्तविषयविषयकं समर्थनम् -
181