________________
ललितविस्तरा-सटीका
. उत्तरोत्तरपरंपरापूर्वकाविच्छिन्नप्रवाहरूपानुबन्धप्रधानत्वविशिष्टसातत्यसाकल्यविशिष्टत्वेन साधुसहकारिलाभो भवति नान्यस्य निरनुबन्धस्याऽनुबन्धरहितस्य तु साधुसहकारिलाभो भवति,
___कदाचिद् चारित्रादिधर्मो न भवेत्, कदाचिद् धर्मो न भवेत्, कादाचित्को धर्मो व्यवहितत्वेन खण्डितत्वेन साधुबन्धो न भवति, मध्ये मध्येखण्डितव्यवहितधर्मस्य पुरुषस्य शुभगुरुयोगो प्रगतिकरणे न भवति, अधुनातन काले दुर्लभता सुगुरो ईश्यते, तद्द्वारा लाभस्तु दूरे ।
__अर्थात्, चारित्रादिधर्मस्यानुबन्धाभाववतः-निरनुबन्धचारित्रादिधर्मवतः, आत्मनः अवश्यफलजनकसुगुर्वादिसहकारिणां लाभो न संपद्यते, तथा च सानुबन्धचारित्रादिधर्मवत आत्मनोऽवश्यफलजनकसुगुर्वादीनां सहकारिकारणानां लाभः संपद्यते । साधुसहकारिप्राप्तिं प्रति अनुबन्धप्रधानचारित्रादिधर्मः कारणमस्ति ।
(४) अनुबन्धप्रधानता सानुबन्धचारित्रादिधर्मवत्ता तदा प्राप्यते यदा अतिचारभीरुतायाः प्राप्तिः स्यात्, अतिचारचारित्रधर्मादिविषयक-अतिक्रम-व्यतिक्रम-अतिचार नामकदोषतो मालिन्यतो रहितत्वं, सातिचारो धर्मो माऽभूदिति-परिणामकटुकताया विचारतो दोषो- मालिन्य जानतोऽजानतो माऽभूदिति भय-कंपः प्रकटं स्यात्तदाऽतिचारभयसिद्धिः, अतिचारभोरौ-निरतिचारचारित्रादिसंपन्ने महापुरुषेऽप्रमत्त सानुबन्धचारित्रादिधर्मसंपन्नता गण्यते,
___ अतिचारैरुपहते प्रमादिनि निर्दय-निध्वंसपरिणामिनि निरनुबन्धता चारित्रादिधर्मादिविषयिणी मन्यतेऽतः साधुसहकारि-प्राप्तेरसंभवस्ततो गाम्भीर्य योगाभाव एव अत एवैतत् सम्यक्प्रवर्तनयोगरूपप्रथमहेतुना धर्मसारथित्वरूपं साध्य निश्चीयते ।
धर्मसारथित्वरूपसाध्यसाधकस्य सम्यक्पालनरूप-द्वितीयहेतो निरूपणम् -
एतत् सम्यकप्रवर्तनयोगरूपसाधनस्य विशिष्टनिरूपणद्वारा पालनस्यायोगःयोगाभावः, प्रत्युक्तः - खण्डितः, अर्थात पालनस्य योगाभावाभाव:-पालनत्वं सिद्धमेव, यतः सम्यकप्रवर्तन (सफलाद्यारम्भरूपव्यापार) स्यैकान्तिक- फलं पालनमस्ति, तथा च सम्यकपालनरूपं “तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य
179