________________
ललितविम्तरा-सटीका
परिपाकापेक्षारूपकारणेन, सम्यकप्रवर्तनयोग:-सफलाऽऽद्योद्यमोत्पादन-क्रियारूपाऽवन्ध्यमलारम्भव्यापाररूपसम्यकप्रवर्तनयोगरूपं कार्य भवति. अर्थात् सम्यकप्रवर्तनयोग-रूपं कार्य प्रति परिपाकाऽपेक्षा कारणम् , परिपाकापेक्षारूपकार्य प्रति प्रवर्तकज्ञान सिद्धिः कारणमिति कार्यकारणभावो विज्ञेयः । (सम्यकप्रवर्तनयोगिनि भगवति) सा, प्रवर्तकज्ञान-सिद्धिस्तु तथाभव्यत्वपरिपाकजन्यस्वभावभूतप्रकृतिद्वारा धर्म प्रति धर्मप्रशंसादि-बीजाधानादि-हेतो र्जनकत्वं घटतेऽतः, अपुनर्बन्धकत्वमर्थात् पापं न तीव्रभावात् करोतोत्यादिलक्षणोऽपुनर्बन्धकः, तस्य भावोऽपुनर्बन्धकत्वं तत्राऽस्ति, तस्मात्कारणात प्रवर्तकज्ञानसिद्धिः, तथाशब्द:-सम्यकप्रवर्तनयोगस्यैव धर्मसारथित्वसाध्यसाधकस्य प्रथमहेतोः सिद्धये परस्परापेक्षवक्ष्यमाण-हेत्वन्तर-चतुष्टयसमुच्चयार्थ :
सम्यक्प्रवर्तनयोगस्य प्रथमहेतोः साधकाश्चत्वारो हेतवः -
(१) गाम्भीर्य योगहेतुजन्यः सम्यक्प्रवर्तनयोगस्तथाहि सम्यकप्रवर्तनयोग(गि)स्य (नः) गाम्भीर्य मर्थाद्, अचिन्त्य (कल्पनाऽतीत) त्रिभुवनातिशायि (महिमशालि) यत् कल्याणं तत्कारकरूपहेतुशक्तिसंपन्नता (शक्तिरेव),
(२) शक्तिविशेषगाम्भीर्य योगः, साधुसहकारिलाभतो भवति-तथाहि फलाव्यभिचारि (फलाऽविसंवादि-फलावंचक) त्वविशिष्टा ये चारवो गुरवः-सुगुरवः, आदि येषां ते सहकारिणः-निमित्तकारणविशेषाः (आदिपदेनाऽत्र, शुभगुरुवचनागमाराधनादि ज्ञेयः) गाम्भीर्य योगकार्य प्रति फलावंचकसुसाधुसहकारिलाभः कारणम् ।
साधु सहकारिप्राप्तिस्तु, अनुबन्धप्रधानत्वविशिष्टा (जन्या)-तथाहि साधुसहकारिप्राप्तिरनुबन्धप्रधानत्वेन भवति,
(३) अनुबन्धप्रधानत्वमत्र-चारित्रविषयकधर्मसाधना (धर्म-पुण्यादिविषयकसाधना) या, एवं च तथाभव्यत्वपरिपाकरूपप्रकृतिजन्य-धर्मप्रशंसादिधर्मबीजरूपकारणस्य सत्ताऽस्ति, अतोऽपुनर्बन्धकत्वमस्ति, अतः प्रवर्तक - स्वपरापेक्षया प्रवृत्ति-प्रथमान्तिमपर्यन्तप्रवृत्तिकारकज्ञानस्य सिद्धिरस्ति, अत एव यथाख्यातचारित्र रूपोत्कृष्टसाध्यस्यापेक्षाऽस्ति, अत एव चारित्रधर्म स्वयं प्रवर्त्तते, परांश्च प्रवर्त्त यति, अर्थात् तेषां सम्यग्प्रवत ने-आदिमारम्भतः प्रकर्षपर्यन्तसंनयनरूपधर्मव्यापारे पुष्टालम्बनभूता भगवन्त एवातो धर्मसारथित्वं भगवतां घटते ।
178