________________
ललितविस्तरा - सटीका
हेतुत्वम्, प्रवृत्त्यनुकूलव्यापारविशेषप्रवर्त्तयितुः, यद्विषयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं तत् । अत्र यत्पदार्थइष्टसाधनत्वम् । तथा च इष्टसाधनत्वस्य ज्ञानं प्रवृत्ति जनयतीष्टसाधनत्वं प्रवर्त्तनं भवतीति ज्ञेयम् )
-
• क्रमशो भगवत्सु धर्मरूपरथस्य सारथित्वसिद्धौ हेतुत्रयी दर्श्यते (१) सम्यक्प्रवर्त्तनयोगरूपहेतुना धर्मसारथित्वरूपसाध्यस्य सिद्धि:, तद्यथा सम्यक्प्रवर्त्तनयोगेन परिपाकापेक्षणात् प्रवर्त्तकज्ञाने सिद्धे, अपुनर्बन्धकत्वात् प्रकृत्याभिमुख्योपपत्त ेः ।
――――
(१) सम्यक्प्रवर्त्तनयोगेनेति = अवन्ध्यमूलारम्भव्यापारेण - प्रकृतधर्मसम्बन्धकावन्ध्यया—सफलयाऽऽद्योद्य मोत्पादन क्रियया धर्मसारथित्वं स्वपरनिष्ठधर्मापेक्षया सम्यक्
प्रवर्त्त नयोगेन धर्मसारथित्वं ।
सम्यक्प्रवर्त्त नयोगः- स्वपरापेक्षया - सफलारम्भव्यापारः कुतः ? इति चेत् कथ्यते ।
(तथाभव्यत्वपरिपाकाऽभिन्नस्वभावभूत-प्रकृति-जन्य - धर्मविषयक - प्रशंसाऽऽदिरूप धर्मबीजकारणस्य सत्ताऽस्ति, अतोऽपुनर्बन्धकेषु, अपुनर्बन्धकत्वसत्ता घटते, पुनर्बन्धकेषु तु तथाभव्यत्वपरिपाकाभावात्, धर्मप्रशंसादिरूपधर्मबोजस्य सत्ता नास्ति, )
प्रकर्षपर्यन्तलक्षणस्य परिपाकस्यापेक्षणात् साध्यत्वेनाऽऽश्रयणात्,
(२) अत एव - अपुनर्बन्धकेषु, अपुनर्बन्धकत्वं - पापं न तीव्रभावात् करोतीत्यादिक लक्षणं कथितमस्ति.
(३) परिपाकापेक्षणं कुत ? इति चेत्कथ्यते अर्थित्वगर्भप्रवृत्तिफलस्य ज्ञानस्य भावात् –(उत्पादनात् संपादनात् ) प्रदर्शकाद्यन्यज्ञानेन प्रवृत्तेरयोगात् ।
अर्थात् तदिच्छामूलकप्रवृत्तिरूपफलजनकस्य ज्ञानस्योत्पादनं (संपादनं ) प्रवर्त्तकज्ञान-सिद्धि प्रति यथाख्यात चारित्ररूप- धर्मप्रकर्षपर्यन्तरूपपरिपाकस्यापेक्षा साध्यत्वेनाश्रयणरूपापेक्षा ( साध्यविषयकेच्छा ) कारणं भवति, अर्थात् परिपाकापेक्षारूपकार्यं, प्रवर्त्तकज्ञानसिद्धिकारणेन भवति, (प्रवर्त्त कज्ञानभिन्नदीपकसम्यक्त्ववत् प्रदर्शकादि-रूपान्यज्ञानं प्रवृत्ति - प्रतिबन्धकं भवति प्रवर्त्तक - ज्ञानमेव, अर्थित्वमूलकप्रवृत्तिरूपं फलं जनयत्येव)
177