________________
ललितविस्तरा-सटीका
तदेव प्रकारचमाह-"कृतो" विहितः “अव्यभिचारी" अविसंवादकः, कथमित्याह-"अनिवर्तकभावेन" आफळप्राप्तेरनुपरमस्वभावेन "नियुक्तो" व्यापारितः . ___ "स्वकार्ये" कृत्स्नकर्मक्षयलक्षणे, कयेत्याह-"स्वाङ्गोपचयकारितया" स्वाङ्गानां-मनुजत्वार्यदेशोत्पन्नत्वादीनामधिकृतधर्मलाभहेतूनामुपचयः-प्रकर्षः तत्कारितया "नीतः” प्रापित : "स्वात्मीभावं" निजस्वभावरूपं, कथमित्याह-"तत्प्रकर्षस्य" धर्मप्रकर्षस्य यथाख्यातचारित्रतया "आत्मरूपत्वेन" जीवस्वभावत्वेन । आह-इत्थं धर्मसारथित्वभवने को हेतुरित्याह-"भावधर्माप्ती" क्षायोंपशमिकादिधर्मलाभे "हिः" स्फुटं "भवत्येव" न न भवति, “एतत्" धर्मसारथित्वम् “एवं" सम्यकप्रवर्तनयोगादिप्रकारेण, कुत इत्याह-"तदाद्यस्थानस्यापि" धर्मप्रशंसादिकालभाविनो धर्मविशेषस्यापि. किं पुनर्वरबोधेः प्राप्तौ ? "एवंप्रवत्तेः" धर्मसारथीकरणेन भगवतां प्रवत्तः, कूत इत्याह-"अवन्ध्यबीजत्वाद" अनुपहतशक्तिकारणत्वाद्धर्मसारथित्वं प्रति, न हि सर्वथा कारणेऽसत्कायमुत्पद्यत इति वस्तुव्यवस्था, परमतेनापि समर्थयन्नाह- .
. "सुसंवृतेत्यादि" सुसंवृतः-सर्वथाऽनुद्घाटितः कांचनस्य रत्नानां च यः करण्डको-भाजनविशेषः तत्प्राप्तितल्या हिः–यस्मात्प्रथमधर्मस्थानप्राप्तिः-धर्मप्रशंसादिरूपा, यथा हि कश्चित्क्वचिदनुद्घाटितं कांचनरत्नकरण्डकमवाप्नुवंस्तदन्तर्गतं कांचनादि वस्तु विशेषतोऽनवबुध्यमानोऽपि लभते, एवं भगवन्तोऽपि प्रथमधर्मस्थानावाप्तौ मौक्षावसानां कल्याणसम्पदं तदाऽनवबोधेऽपि लभन्ते एव, तदवन्ध्यहेतुकत्वात्तस्याः, “इति" इत्येवम् “अन्यरपि" बौद्ध रभ्युपगमात्,
टी. :- यथा भगवन्तः 'धर्मदा-धर्मदेशका-धर्मनायकास्तथा धर्मसारथयो भवन्ति,' अर्थाद धर्मसारथिभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः ।
अत्र 'धर्मसारथि' पदघटितधर्मपदेन, पूर्वसूत्रवद् अधिकृतचारित्रधर्म एव ग्राह्यः ।
तथा च चारित्रधर्मरूपरथस्य स्वपरापेक्षया सम्यकप्रवर्तन-पालन-दमन-योगतः सारथित्वं । (यथा सुकुशलः सारथी रथं च रथवाहकानश्वान् तथा प्रवर्त्त यति, यथा तुरङगाणां रथस्याऽपि नापायो (हानिः) भवति. एवं जिनोत्तमैरपि उत्सर्गापवादप्रमुखयुक्तिभिः, धर्मस्य धर्मिणामेकान्तहितो धर्म उपदिष्टः, अत्र धर्मस्थाने रथः, तुरंगमस्थाने तस्य रथस्य धारकाः पुरुषा ज्ञेयाः, उभयहितं-रथरथधारकोभयहितमुपदिशन्तो जिननाथा धर्मसारथयो ज्ञेयाः । श्री. दे. चैत्य. श्री. धर्म. संघाचारविधितोऽर्थो गृहीतः) चारित्ररूपधर्मस्य स्व-आत्मनः, परस्य स्वभिन्नस्याऽऽत्मनः, अर्थात् स्वपरापेक्षया-स्वं परं चापेक्ष्य सम्यक् प्रवर्तनं-सम्यक्पालनं, सम्यग्दमनं तस्य सम्बन्धतः सारथित्वमित्यर्थः।
(सम्यकप्रवर्त्तनं-'प्रवृत्त्युत्पत्तावयं क्रमः- प्रथमतः फलज्ञानं, ततः फलेच्छा, तत इष्टसाधनताज्ञानं । तत उपायेच्छा, ततः प्रवृत्तिरुत्पद्यते इति' प्रवर्तनं = प्रवृत्ति
176