________________
ललितविस्तरा-सटीका
एतेन पालनाऽयोगः प्रत्युक्तः, सम्यक्प्रवर्तनस्य निर्वहणफलत्वात्, नान्यथा सम्यक्त्वमिति समयविदः । एवं दमनयोगेन, दान्तो ह्येवं धर्मः कर्मवशितया कुतोऽव्यभिचारी, अनिवर्तकभावेन-नियुक्तस्वकार्ये स्वाङ्गोपचयकारितया नीतः स्वात्मीभावं, तत्प्रकर्षस्यात्मरूपत्वेन । भावधर्माप्तौ हि भवत्येवैतदेवं, तवाद्यस्थानस्याप्येवंप्रवृत्तेरवन्ध्यबोजत्वात्,
सुसंवृतकांचनरत्नकरण्डकप्राप्तितुल्या हि प्रथमधर्मस्थानप्राप्तिरित्यन्यैरप्यभ्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसारथयः २३ ॥
पं. - "इहापीत्यादि" इहापि व केवलं पूर्वसूत्रे, "धर्मोऽधिकृत एव" चारित्रधर्म इत्यर्थ :, "तस्य" रथस्येव "स्वपरापेक्षया" स्वस्मिन्परस्मिश्चेत्यर्थः, "प्रवर्तनपालनदमनयोगतः" हेतुत्रितयतया साधयिष्यमाणात्, “सारथित्वं" रथप्रवर्तकत्वं, तदेव तद्यथेत्यादिना भावयति, तत्सारथित्वं यथा भवति तथा प्रतिपाद्यत इत्यर्थः, “सम्यक्प्रवर्तनयोगेन" अवन्ध्यमूलारम्भव्यापारेण धर्मसारथित्वमिति संटङ्कः, एषोऽपि कुत इत्याह-"परिपाकापेक्षणात्" परिपाकस्य-प्रकर्षपर्यन्तलक्षणस्यापेक्षणात साध्यत्वेनाऽऽश्रयणात्, एतदपि कुत इत्याह-"प्रवत्त कज्ञानसिद्ध:" अथित्वगर्भप्रवृत्तिफलस्य ज्ञानस्य भावात्, प्रदर्शकाद्यन्यज्ञानेन प्रवृत्तेरयोगात्, साऽपि कथमित्याह
"अपुनर्बन्धकत्वात्" पापं न तीवभावात्करोतीत्यादिलक्षणोऽपुनर्बन्धकस्तद्भावात्, तदपि कथमित्याह-"प्रकृत्याभिमुख्योपपत्तेः" प्रकृत्या-तथाभव्यत्वपरिपाकेन स्वभानभूतया धम्म प्रति प्रशंसादिनाऽनुकूलभावघटनात्, तथाशब्दः सम्यक्प्रवर्तनयोगस्यैव प्रथमहेतोः सिद्धये परस्परापेक्षवक्ष्यमाणहेत्वन्तरचतुष्टयसमुच्चयार्थः, "तथागाम्भीर्ययोगाच्च" सम्यक् (प्र) वर्तनयोगो गाम्भीयं चास्याचिन्त्यत्रिभुवनातिशायिकल्याणहेतुशक्तिसम्पन्नता, एतदपि कुत इत्याह-"साधुसहकारिप्राप्तेः" फलाव्यभिचारिचारुगुर्वादिसहकारिलाभात्, इयमपि कथमित्याह-"अनुबन्धप्रधानत्वात्" निरनुबन्धस्योक्तसहकारिप्राप्त्यभावात्, तदपि कमित्याह- "अतिचारभीरुत्वोपपत्तेः" अतिचारोपहतस्यानुबन्धाभावात् । इत्थं प्रथमहेतुसिद्धिमभिधाय द्वितीयसिद्धयर्थगह
"एतेन" सम्यकप्रवर्तनयोगसाधनेन, किमित्याह-"पालनायोगः" पालनस्यायोगः-अघटनं "प्रत्युक्तो" निराकृतः, कुत इत्याह-"सम्यक्प्रवर्तनस्य" उक्तरूपस्य “निर्वहणफलत्वात्" पालनफलत्वाद्, अथ कथमयं नियमो यदुत-पालनफलमेव सम्यक्प्रवर्तनमित्याह-"न" नैव "अन्यथा" पालनाभावे "सम्यक्त्वं" सम्यग्भावः प्रवर्तनस्य, “इति" एवं “समयविदः" प्रवचनवेदिनो वदन्ति । अथ तृतीयहेतुसिद्धिमाह-"एवमिति" यथा सम्यक्प्रवर्तनपालनाख्यहेतुद्वयादर्मसारथित्वं तथा दमनयोगेनापीत्यर्थो, "दमनयोगेन" सर्वथा स्वायत्तीकरणेन । अमुमेव साधयन्नाह-"दान्तो" वशीकृतो "हिः" स्फुटम् "एवं" वक्ष्यमाणेन, अव्यभिचारीकरणस्वकार्यनियोगस्वात्मीभावनयनरूपप्रकारत्रयेण, धर्मः कयेत्याह"कर्मवशितया" कर्म-चारित्रमोहादि, वशि-वश्यमबाधकत्वेन येषां ते तथा तद्भावस्तत्ता तया,
175