________________
ललितविम्तरा-सटीका
... (विघातं प्रति न कोऽपि हेतुरस्ति अतो विघाताऽसम्भवेन सहजत्वेन स्वतः सदा-नित्यधर्मसत्तावन्तोऽर्हन्तः)
("नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कस्वसम्भवः ॥" यस्य वस्तुनः किंचिदपि कारणं नास्ति, तस्य स्थितिद्वयम् , एकस्थिति:नित्यमस्तित्वं तस्य, यथाऽस्माकमेष आत्मा, अनादितोऽस्ति, अनन्तं कालं यावदस्तित्वं तस्य. अथवा निर्हेतुकवस्तुनो नित्यमसत्त्वं, यथाऽऽकाशपुष्पं, शशशृङगं, एतदर्थे किमपि कारणं नास्ति, जगति तादृशवस्तु कुत्रचिन्न लभ्यते. एवं च यद्वस्तु, कदाचिदपि भवति, कदाचिन्न भवति तद्वस्तु, कारणजन्यं (कादाचित्कं) यथा घट: कदाचिद भवति, कदाचिन्न भवति, ततः कारणजन्यं (सहेतुकं) कथ्यते, यन्निर्हेतुकं वस्तु भवति, तेन तु नित्येन भवनीय, यतस्तस्य स्वाऽस्तित्वे कस्याऽपि वस्तुनोऽपेक्षा नास्ति, अथवा यस्याऽभावे तद्वस्तुनिवृत्तिः, अथवा, एतस्य निष्कारणस्य कदाचिदपि, अस्तित्वं न भवेत . इदमत्र हृदयम् = तीर्थ करगतधर्म प्रति कश्चिदपि विघातको हेतु नास्ति, अर्थाद् विघातककारणमात्रशून्यता, अत एव विघातककारणमात्रशून्यो जिनेश्वरगतधर्मः, सदाऽस्तित्ववान्, नित्यसत्त्वमते न कोऽपि बोधः, अथवा, आदिपदेन हेतुशून्यविघातः सर्वथाऽसिद्धः-नित्यअसत्त्ववान् = नित्याऽसन्निति विज्ञेयम्) तथा च निर्हेतुकविघातासिद्धिरूपसाधनेन भगवन्तो धर्मविघातरहिता एवैवं निश्चितं मन्यते, एवं च धर्मवशकारका अतः, धर्मातमाऽवाप्तिमन्तः, अतः, धर्मफलपरिभोगयुक्ता अतः, धर्मविघातरहिता अतोऽर्हन्तो भगवन्तो धर्मनायकाः - धर्मस्य स्वामिन-उच्यन्ते,
इति-एवं शक्रस्तवस्य ‘धर्मनायक'रूपस्य द्वाविंशतितमपदस्य व्याख्या समाप्ता । अथ शक्रस्तवस्य 'धर्मसारथि' रूपस्य त्रयोविंशतितमपदस्य विशिष्ट व्याख्यानारम्भः
तथा-'धम्मसारहीणं' इहापि धर्मोऽधिकृत एव, तस्य स्वपरापेक्षया सम्यक् प्रवर्तनपालनदमनयोगतः सारथित्वं, तद्यथा-सम्यकप्रवर्तनयोगेन परिपाकापेक्षणात् प्रवर्तकज्ञानसिद्धः १ । .... अपुनर्बन्धकत्वात् प्रकृत्याभिमुख्योपपत्तेस्तथा गाम्भीर्ययोगात् साधुसहकारिप्राप्तेरनुबन्धप्रधानत्वात् अतीचारभीरुत्वोपपत्तेः २ ।
174