________________
ललितविस्तरा-सटीका
नायकः, धर्मफलपरिभोगकारी अतो धर्मनायकः, तथा 'धर्मविधातरहितः' .. अतः धर्मनायकोऽस्ति तथाहि =
(१) भगवन्तः (पक्षः) धर्मविघातरहिताः । (अत्र धर्मविघाला (का) भावः साध्य धर्मध्वंसाऽप्रतियोगित्वं) यतो भगवन्तो, अवन्ध्य (अमोघ) पुण्यनामकधर्मबीज(मूल-आदिकारण) रूपाः कथमितिचेत्कथ्यते, एतेषां भगवतां स्वाश्रयद्वारा स्वरूपाधारण पुष्ट (वृद्ध) मेतत्पुण्यमस्ति, अर्थाद-(स्वाश्रयरूपपोषकपुष्टत्वेन, तीर्थ करत्वफलत्वेनावन्ध्य) वन्ध्यपुण्यबीजत्वरूपहेतुना धर्मविघात-विध्वंसस्य (धर्मप्रतिबन्धकतत्त्वस्य वा) आत्यन्तिकाभावरूपसाध्यविशिष्टा अर्हन्त इति सिद्धम् ।
(२) यथा धर्मविधाताऽत्यन्ताभावरूपसाध्यसाधकावन्ध्यपुण्यबीजत्वं हेतुरस्ति तथा अधिकानुपपत्तिरूपहेतुरस्ति' अधिकपुण्यस्य योगाभावोऽस्ति, तथाहि = (अधिकपुण्यसंभवे हि इतद्धिर्हन्यते, अधिकपुण्याऽसंभवतः प्रभुरूपेत्तद्धिर्न हन्यते, इत्यर्थ :) तीर्थ करगतपुण्यलक्षणो धर्मो तदैवाऽभिभूतः स्याद् यदा तीर्थंकरगतपुण्यतोऽधिकं (अतिशायि) पुण्य, अन्यव्यक्तौ भवेत् परन्तु अन्यसर्वव्यक्तिषु तीर्थ करस्य पुण्यतोऽधिकं पुण्य नास्त्येव, अर्थात् तीर्थ करगतपुण्यलक्षणो धर्म , केनचिदपि कदाचिदपि कुत्रचिदपि न विहन्यते, तथाचाधिकपुण्यानुपपत्तिरूपसाधनेन धर्मविघाताऽभावरूपसाध्य सिद्धयति, एवं च तीर्थ करनामकर्मनामकमहापुण्यतोऽघिकपुण्यस्याऽन्यत्र सर्वत्राऽभावेन, तीर्थ करेषु सद भावेन, धर्म- विघाताऽभाववन्तो भगवन्तो विद्यन्त एव इति सिद्धम् ।।
(३) यथा 'धर्मविधाताऽत्यन्ताभावरूपसाध्यं प्रति 'अवन्ध्यबीजत्वं, अधिकानुपपत्तिः' तथा 'पापक्षयभावात्' निर्दग्धमेतत्, पापक्षयभावस्तृतीयं साधनमस्ति, तथाहि = धर्मविघातकपापपुजः सर्वथा भगवद्भिः निर्दग्धोऽस्ति, अत एव पापक्षयभावरूपसाधनेन भगवन्तः धर्मविघात (क)-प्रतिबन्धकशून्यताविशिष्टा इति प्रमाणितमेव ।
(४) यथा धर्मविघाताभावरूपसाध्यं प्रति 'अवन्ध्यपुण्यबीजत्वं, अधिकानुपपत्तिः, पापक्षयभावः साधनानि सन्ति' तथाऽहेतुकविघातासिद्धिः चतुर्थो हेतुरस्ति. तथाहि = धर्मविघात (क) हेतूनां सर्वथा योगाऽभावोऽस्ति. अर्थाद धर्मविघातकारकहेतूनामात्यन्तिकासिद्धि (सर्वथाऽभावः) भवति, अतो नित्यसत्त्वादिभावेन नित्यधर्मविघातरहिताः सन्ति भगवन्तः,
173