________________
अलौकिक कमनीयकान्तिविशिष्टता) एतत् प्रथमं साधनं, एवमेतत्साधनद्वारा भगवन्तः, धर्मफलपरिभोगरूपसाध्यावच्छिन्ना इति सिद्ध भवति ।
1
ललितविस्तरा-सटीका
( २ ) यथा भगवन्तो धर्मफलपरिभोगसाध्य प्रति सकलसौन्दय हेतुस्तथा प्रातिहार्यं योगरूपो द्वितीयो हेतुः, एतत्साधनं प्रातिहार्य योगसाधनं, अर्हतामेव नान्येषामर्थाद्, अर्ह भिन्नेष्वन्येषु प्रातिहार्य योगस्य सर्वथाऽयोगः, प्रातिहार्य योगरूपसाधनेनाऽर्हन्तो भगवन्तो धर्मफलपरिभोगरूपसाध्याश्रयभूता इति सिद्ध ।
“अशोकवृक्षः सुरपुष्पवृष्टि दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ।। "
( ३ ) यथा भगवतां 'धर्मफलपरिभोग' रूपसाध्यं प्रति 'सकलसौन्दर्यं प्रातिहार्य - योग: साधनं' तथा तृतीय - उदार - ऋद्धि (समृद्धि) संपदामनुभूति: साधनं ज्ञेयं तथाहि = संपूर्ण पुण्य पुंजजन्येयमुदारसमृद्ध ेरनुभूतिः ( सहजातिशयचतुष्टयं घातिकर्मक्षयजन्या एकादशातिशया, देवकृता एकोनविंशतिरतिशया एवं चतुस्त्रिंशदतिशय रूपमहोदार समृद्धिपरिभोगविशिष्टास्तीर्थं कराः समग्रपुण्यपुंज मूर्त्तयो भवन्ति ) अर्थादुदारसमृद्ध रनुभवरूपसाधनेन, अर्हन्तः परात्मानः 'धर्मफलपरिभोग' रूपसाध्याधारभूता इति सिद्धम् ।
( ४ ) तथा तदाधिपत्यतो भावात्, न देवानां स्वातन्त्र्येण ।
यथा भगवतां धर्मफल परिभोगरूपसाध्यं प्रति "सकलसौन्दर्य, प्रातिहार्य योगः, उदारद्धि - समृद्धिरनुभूति: साधनानि सन्ति तथा तदाधिपत्यभावः साधनमस्ति तथाहि = भगवन्त एवं उदारद्धिजनकसंपूर्णपुण्यरूपधस्य वोदाद्धि - समृद्ध - रधिपतयः सन्ति, भगवत्स्वेवाधिपतिषु, इयमुदारद्धिरुत्पद्यते, अतिशय रूपसमृद्धिकर्त्तृषु अपि देवेषूदाद्धिर्नोत्पद्यतेदेवानां स्वातन्त्र्येणोदारर्द्धराधिपत्याभावः कथ्यते तथा च तीर्थ करेषु, एवोदारद्ध राधिपत्यमुत्पद्यतेऽतस्तदाधिपत्यभावसाधनेनैव भगवन्तो धर्मफलपरिभोगरूपसाध्यसंपन्ना इति
सिद्धम् ।
प्रतिहेतुचतुष्टयप्ररूपणा पूर्वकं 'धर्मविघातरहितत्वरूप चतुर्थेन मूल हेतुना 'धर्मनायकत्व' रूपं मौलिकं साध्यं साधयति
एव-भगवान् धर्मवशकारको तो धर्मनायकः, धर्मोत्तमाऽवाप्तिमान् अतो धर्म
172