________________
ललितविस्तरा-सटीका
(११) ततः, तत् सिद्धान्तमर्माभिज्ञा गीतार्थ मूर्धन्याः समीचीनरूपेण सेवितव्याः, अतो गुरुतः सिद्धान्तज्ञानं समर्थमुपकारकमायाति,
(१२) मुण्डमालाया - शिरः स्रजो ज्ञातं च मृन्मयी जलघटिकायां भावनीयम्, भौतिकपदार्थान् प्रति अनित्यताकृतबुद्धिर्जनः मालाया म्लानत्वेन शोचति न नित्यताकृतबुद्धिस्तु भाण्डस्य भग्नत्वमात्रेणाऽपि भृशं शोचति.
सुखश्रीमत्यां दशायां मा सन्तुष्टः प्रीतः प्रसन्नो भवतु दुःखदरिद्रदशायां, उदासीनो दीनो मा भवतु यतः कर्ममयसंसारस्य सामर्थ्य मस्ति यत् क्षणं जीवो जलघटीवत् हीनक्क्षावान् भवति, क्षणं जीवः पुष्पमालावत् महामूल्यवत्कक्षावान्, सर्वशिरोधार्य:, महान्, राजा, महाराजः श्रीमान् भगवान् भवतीति,
(१३) असत: (असत्यस्याशाश्वतस्याविद्यमानस्य दुर्जनस्य) अपेक्षाया: (आशाया :शरणालंबनस्य - विश्वासस्य ) त्यागः ( विसर्जनं - अनवकाशः ) नियमतः कर्त्तव्य एव अर्थात् सतः ( सत्यस्य - शाश्वतस्य विद्यमानस्य सज्जनस्य ) अपेक्षा ( आशा - आलंबनं - विश्वासः ) कर्त्तव्यो यतो, फलाऽविसंवादि, सत् भवति, फलविसंवादि, असद भवति,
(१४) आज्ञेव प्रधाना जीवने यस्य सः, आज्ञाप्रधानः, तेन भाव्यम्, विनाऽऽज्ञां सर्वं गौणं कृत्वा, प्रागेवाज्ञा समाराध्या न विराध्या कदाचिदपि, जिनाज्ञा
(१५) सर्वत्र क्रियासु वा कार्येषु प्रणिधानं चित्तस्यैकाग्रता कार्या, प्रणिधानकृतं कृतं, अप्रणिधानेन कृतमकृतमुच्यते, कृतस्य फलप्राप्तौ प्रणिधानं प्रधानम्,
(१६) साधूनां सेवया ( प्रासुकाहारजलवस्त्रपात्रग्लानंस्यौषधादिदानप्रयुक्तया ) दानशीलतपोभावरूपं श्रावकधर्मरूपं धर्मशरीरं पोषणीयम्, दृढपुष्टं कर्त्तव्यम्,
( १७ ) प्रवचनस्य - जैनशासनस्य ज्ञात्वाऽज्ञात्वा किंजातीयमपि मालिन्यं न कर्त्त - व्यमपि तु रक्षणीयं - केनचिदपि कृतस्य मालिन्यस्य शुद्धये रक्षा कर्त्तव्या, सत्यां शक्तौ मालिन्यस्य ( अवहेलनाया - अपभ्राजनाया वा निन्दाया:) विनाशो यथास्यात्तथा कर्त्तव्यः, प्रवचनमालिन्याऽकरणरक्षणतः सद्गतितीर्थंकरपदप्राप्तिपर्यन्तं जीवो गच्छति,
(१८) शास्त्रनिर्दिष्टविधिना यः प्रवर्त्तते स ' विधिप्रवृत्तः' अथवा योग्यगुरोः पार्श्वे विधिना गृहीतदीक्षो 'विधिप्रवृत्तः' कथ्यते एतच्च त्रिभिप्रवृत आत्मा, प्रकृतचा
164
"