________________
ललितविस्तरा-सटीका
रित्रधर्ममथवा पूर्वोक्तसर्वसत्कार्याणि सम्पादयति-लभते अर्थात् सर्वकृत्येषु सर्व शास्त्रविहितविधिमनुसृत्य प्रवर्त्तन्ताम्, विधिप्रवृत्ता भवन्तु इत्यर्थः,
(१९) सूत्रात-आगमात, आत्मभाव:-स्वस्वरूपं गुणपर्यायात्मकं ज्ञातव्यम् अथवा-अरक्ताद्विष्टादिलक्षणनिरूपकागमबलतो रागादिरूपात्मपरिणामोऽपि बोद्धव्योऽर्थात आगमद्वारा को विभावभावः ? क: स्वभावभाव ? इति ज्ञात्वा हंसवत् विवेकमुपयुज्य स्वभावभावप्रादुर्भावे-आग्रहो दृढतापूर्वकप्रयत्नादिः कर्तव्यः,
(अत्रैका गाथा स्मर्त व्या 'भावना सूत्रपाठः तीर्थसेवनमसकृत् तदर्थज्ञातरि, ततश्चआत्मप्रेक्षणमतिनिपुणं गुणदोषवीक्षाया'मिति)
(२०) प्रवृत्तौ-क्रियादौ, इष्टानिष्टसूचकानि शकुनानि-(पक्षिरुतानि) अपेक्षणी यानि अथवा कार्यादौ निमित्तानि-सहकारिकारणान्यपि, अपेक्षितव्यानि,
(२१) असम्पन्न-अप्राप्तसम्यगदर्शनज्ञान चारित्ररूपेषु मोक्षमार्गरूपेषु योगेषु विशिष्टप्रयत्नवन्तो भवन्तु,
(२२) विस्रोतसिका-प्रमादजन्यस्खलना न भवेदेतदर्थे सर्वथा सावधानतालक्ष्यता रक्षणीया, प्रमादागमनात् पूर्वमेव सावधानीभूय प्रमादनाशका उपाया योजनोयाः, स्खलनां प्रति दत्तलक्ष्या भवन्तु,
(२३) 'प्रक्षालनाद्धि पङ कस्य दूराद स्पर्शनं वरं' इति न्यायात पापं कृत्वा पापप्रक्षालनात पापाकरणं-प्रमादाकरणं वरं श्रेयस्करम , तथा च भयागमनात पूर्व शरणं शोध्यते, तथा भविष्यतकालोनाः प्रमादप्रकाराः प्रतिकरणीयाः-तत्तदुपायद्वारा (यथा भये शरणं, रोगे उपायद्वारा प्रतिकार-क्रिया, विषे मंत्रक्रिया तथा भविष्यत् काले प्रमादो माऽभूदिति विचारद्वारा, प्रमादकारणप्रतिबन्धक्रिया कर्तव्येति)
एवं यो जीवो विशिष्टक्रिया द्वारा प्रवर्तते वा वर्तते तस्याऽऽत्मन: सोपक्रमकर्मनाशः धर्मशास्त्रनिर्दिष्टोपाय-साधन-प्रायश्चित्तादिद्वारा प्रतिकार्य-सोपक्रमस्य कर्मणो नाशो भवति एवं निरुपक्रमस्य-निकाचितस्य कर्मणोऽनुबन्ध:-बोजशक्तिनंष्टा भवति, अर्थात नवीनः कर्मबन्धो न भवति, प्रत्युत कर्मणां शृङखलाबन्धवदविश्च्छिन्नप्रवाहसम्बन्धस्थ प्रतिबन्धो भवतीत्येवं धर्म देशयन्ति-प्ररूपयन्तीति धर्मदेशकाः ।
165