________________
ललितविस्तरा-सटीका
तत्र प्रस्तुतचारित्रधर्म एव गृह्यते, तं चारित्रधर्म भव्यताऽनुसारेण कथयन्ति सर्वज्ञाः, अर्हन्त इति तद यथा. - .
(१) एष संसारः, वह्निप्राचुर्येण प्रदोप्तोऽतिशयदग्धो गृहस्योदरः-मध्यभागः, तत्समानोऽस्ति, ज्वलन्मध्यभागेन सर्वत्र दाहो व्याप्नोतीत्यर्थः, जाज्वल्यमाने सर्वतः संसारे (दुःख) दाहं विना किमपि नास्ति,
(२) एष संसारः पुनः, आधिव्याधिउपाधिरूपतापत्रिपुटी-गर्भावास-जन्मजरामरणादिविविध-विचित्रवेदनानां (दुःखानां) निवासस्थानं-स्वगृहमिव,
(३) अस्मिन् भवोदधौ विदुषः-कर्त्तव्यशोलविशिष्टज्ञानिनः प्रमादो (मोह-विषय रसोन्माद-धर्मशुष्कता-धर्मविषयकमन्दता (आलस्य) रूपप्रमादो) न युक्तः विवेकिनो न समंजस -न न्याययुक्तः, यतः प्रमादलवस्यापि परिणामो बलवदनिष्टानुबन्धी भवति, किंच
(४) मानुष्यावस्थाऽतिदुर्लभा-कोटाकोटिभवशतेनाप्यत्यन्तदुष्प्रापा, (५) परलोकविषयकसाधनं (साधना) प्रधान मुख्य मतम , (६) विषयाः परिणामे-फलान्तेऽत्यन्तदारुणाः कटुकाः किंपाकफलवत् ,
(७) विद्यमाना वा शुभा इष्टा मनोवल्लभा-मनोहरा येऽत्यन्तप्रियसंयोगाः (समागमाः) सन्ति ते सर्वे संयोगाः, अन्ते-नियमतो वियोगस्वभावाः,
(८) पतनशीलमायुः, कदा पतिष्यतीति ज्ञानरहितमायुः, अतः पतनस्य भयं अन्तःकरणे सदा वर्तते एव, मनुष्यस्यायुः कदा कुत्र किंनिमित्तात , नङ क्ष्यति, वर्तमानभवलीलाविलास: क्षय प्राप्स्यतीति न ज्ञायते, कायः पतनप्रकृतिकः, पतननिश्चयाभावेन, मरणं मस्तकेऽवतिष्ठते (लंबते)
(९) तदेवमेतादृश्यां परिस्थितौ वा व्यवस्थायां सत्यां जाज्वल्यमानसंसारदावानलस्य विध्यापने यतितव्यम्-प्रयत्नविशेषः कर्तव्यः,
(१०) एतत-संसारदावानलविध्यापनं सिद्धान्तविषयकहढसंस्काररूपवासनारूपजलसारप्रधानो मेघो यदि परं विध्यापयति-विध्यापने समर्थो भवति नान्योऽतः सिद्धान्तः स्वीकर्तव्य:-सिद्धान्तस्वीकारः प्राककर्तव्यः,
163