________________
ललितविम्तरा-सटीका
योग्यताऽस्ति, सद्देशनायोग्यतायाः कारणं भगवद्बहुमानं भवति, भगवद्बहुमानं चारित्रधर्म प्रति परंपराकारणं, 'भिन्नत्वेन प्रतीयमानयोरैक्यारोपणमुपचारः' कारणत्वेन कार्यत्वेन रूपेण भिन्नत्वेन प्रतीयमानयोः सद्देशनायोग्यताधर्मरूपकारणकार्य योरेक्यारोपणमत्रोपचारो ज्ञेयः, चारित्ररूपधर्मकारणत्वात् सद्देशनायोग्यतायां चारित्ररूपधर्मत्वारोपोऽत्र बोध्यः, यथा प्राणसाधनत्वादन्ने प्राणत्वारोपः ।)
इत्येवं 'धर्मद' नामकस्य शक्रस्तवस्य विंशतितमपदस्य व्याख्या समाप्ता, अथ 'धर्मदेशक' नामकस्य शक्रस्तवीय कविंशतितमपदस्य व्याख्याऽऽरम्भः -
तथा 'धम्मदेसयाणं,' तत्र धर्मः-प्रस्तुत एव तं यथाभव्यमभिदधति, तद्यथाप्रदीप्तगृहोदरकल्पोऽयं भवो, निवासः शारीरादिदु खानां न युक्त इह विदुषः प्रमादः, यतः अतिदुर्लभेयं मानुष्यावस्था, प्रधानं परलोकसाधनं, परिणामकटवो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि पातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य यतितव्यं, एतच्च सिद्धान्तवासनासारो धर्ममेघो यदि परं विध्यापयति, अतः स्वीकर्तव्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः, भावनीयं
मुण्डमालालुकाज्ञातं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन उपादेयं प्रणिधानं, पोषणीयं साधुसेवया धर्मशरीरं, रक्षणीयं प्रवचनमालिन्यम्, एतच्च विधिप्रवृत्तः सम्पादयति, अतः सर्वत्र विधिना प्रवत्तितव्यं, सूत्रात्, ज्ञातव्य आत्मभावः, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसम्पन्नयोगेषु लक्षयितव्या विस्रोतसिका प्रतिविधेयमनागतमस्याः भयशरणायुदाहरणेन, भवत्येवं सोपक्रमकर्मनाशः निरुपक्रमानुबन्धव्यवच्छित्तिरित्येवं धर्म देशयन्तीति धर्मदेशकाः २१ ॥
पं.- "मुण्डमालालुकाज्ञातमिति" मुण्डमाला-शिरःस्रग , आलुका-मृन्मयी वाटिका ते एव ज्ञातं-दृष्टान्तो, यथा “अनित्यताकृत बुद्धिानमाल्यो न शोचति । नित्यताकृतबुद्धिस्तु, भग्नभाण्डोऽपि शोचति ।। १ ।।" "सूत्रेत्यादि'' सूत्राद्-अरक्तद्विष्टादिलक्षणनिरूपकादागमात "ज्ञातव्यो" बोद्धव्यः "आत्मभावः" रागादिरूप आत्मपरिणामो, यथोक्त "भावणसुयपाठो तित्थसेवण समयं तयत्थजाणमि । तत्तो य आयपेहणम इनिउण गुणदोस विक्खाए॥१॥" इति, "निमित्तानीति" इष्टानिष्टसूचकानि शकुनादीनि सहकारिकारणानि वा "भयशरणाद्युदाहरणेनेति" । “सरणं भए उवाओ रोगे किरियाविसंमि मंतोत्ति” इत्युदाहरणं ।।
टी.:- तथा 'धम्मदेसयाणं' धर्मदेशकेभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः ।
162