________________
ललितावस्तरा-सटीका
विशुद्ध क्रियाप्राकटययोग्यः,
सकलसत्त्वविषयकहिताशयरूपामृतलक्षणसम्पन्नः,
स्वपरि
णाम एव, कथमिति चेत् कथ्यते क्षायोपशमिकादिभावस्वरूपो धर्मो भवति,
पूर्वोक्तस्वरूपो धर्मः भगवदनुग्रहरूपसहकारिणं ( सहकारित्वम् = सहकार्य करणरूपमथवा ‘स्वभिन्नत्वे सति स्वकार्य कारित्वम्' यथा दण्डस्य मृत्तिकाकार्य घटकारित्वम् तथा भगवदनुग्रहस्य सद्देशनायोग्यताकार्यं चारित्रधर्मकारित्वात् सहकारित्वं बोध्यम्,
यथा मृत्तिकाकार्य रूपघटं प्रति दण्डः सहकारी, यतो मृत्तिकाभिन्नत्वे सति, मृत्तिकाकार्य रूपं घटं करोति तथा सद्देशना योग्यताजन्य कार्य रूपचारित्रधर्मस्य कारणं भगवदनुग्रहः सहकारित्वेन मन्यते यतः सद्देशना योग्यताया भिन्नत्वे सति, सद्देशना - योग्यताजन्यकार्य रूप चारित्रधर्मं जनयति ) विना नैव भवति,
भगवदनुग्रहरूपसहकारिसत्तायामेव चारित्रधर्मसत्ता वर्त्तते यतो धर्मस्य स्वयोग्यतागुरुसंयोगादिरूपकारणकूटजन्यत्वेऽपि महानुभावतया (अचिन्त्यशक्तिमत्त्वेन ) सर्वहेतुषु भगवदनुग्रहस्य प्राधान्य (अविनाभावित्वेन ज्येष्ठत्वं ) ( तुज करुणा सहु ऊपरे रे सरखो छे महाराय, पण अविराधक जीवने रे कारण सफलुं थाय )
भगवदनुग्रह एव अविसंवादि निमित्तं पुष्टालंबनं, प्रभावकनिमित्तं वर्त्तते, अर्थाद भगवदनुग्रहं विहाय चारित्रधर्मो न भवति, मोक्षाय च न प्रभवति अत एव धर्मप्राप्तिसामीप्यवर्त्तिनो भव्यस्य, भगवति - परमगुरौ बहुमानो न भवतीति न, अपितु भवत्येव, मह्यं तु भगवानेव भगवदाज्ञैव रोचते नान्यत् किमपि भवीय भौतिकमिति भगवद बहुमानभवनिर्वेदयोरेकपर्यायत्वं बोध्यम् ततो भगवद्द्बहुमानादवश्यं ( वक्ष्यमाणरूप) सदेशनायोग्यता ( उचितत्व) रूपं कार्य भवतीति तथा च सद्देशनायोग्यता द्वारा पुनरयं चारित्रधर्मः, अवश्यंतया भवति, एवं परम्परया भगवद्बहुमानप्रकृत चारित्रधर्मरूपस्योभयस्य कार्यकारणभावस्वभावतया भगवद्बहुमानस्य महानुभावतयाऽधिकृतधर्महेतुषु प्रधानभावसिद्धिर्भवति, सद्ददेशनायोग्यतारूपकारणे चारित्ररूपधर्मरूपकार्यस्योपचारादध्यारोपाद् धम्म ददतीति धर्मदास्तेभ्यो धर्म्मदेभ्योऽर्हद्द्भ्यो भगवद्द्भ्यो नमो नमः । ( कारणस्य यत् कारणम् तस्य प्रयोजकत्वमिति कारणस्य यत्कारणं तत् परंपराकारणं- व्यवहितकारण प्रयोजककारण गण्यतेऽत एव चारित्रधर्मस्य कारणं सद्ददेशना
161