________________
रूलितविस्तरा-सटीका
परिपालनं तेन, परमया-भावरूपया शास्तृत्वसम्पदा-धम्मचक्रवर्तित्वरूपया समन्विताः-सङ्गता युक्ता भगवन्त इति यथाक्रम सूत्रपंचकेन प्रतिपादयन्नाह
"नामित्यादि" न-नैवायम्-उक्तरूपो धम्मो भगवदनुग्रहं सहकारिणमन्तरेण-विना, कुत इत्याह-"विचित्र हेतुप्रभवत्वेऽपि" विचित्रा:-स्वयोग्यतागुरुसंयोगादयो हेतवः प्रभवो-जन्मस्थानं यस्य तद्भावस्तत्त्वं तस्मिन्नपि धर्मस्य "महानुभावतया" अचिन्त्यशक्तितया "अस्यैव" भगवदनुग्रहस्य हेतुषु “प्राधान्यात्" ज्येष्ठतया, तदेव भावयति-"भवत्येव" न न भवति, "एतदासन्नस्य" धर्मासन्नस्य "भगवति" परमगुरौ "बहुमानो" भवनिर्वेदरूपः "ततो" भगवद्बहुमानात् "हिः' स्फुट "सद्देशनायोग्यता" सद्देशनाया-वक्ष्यमाणरूपाया योग्यता-उचितत्वं
"ततः" सद्देशनायोग्यतायाः "पुनरयं" धम्मों "नियोगतः" अवश्यतया "इति" एवं परम्परया "उभयतत्स्वभावतया" उभयस्य-भगवद्बहुमानप्रकृतधम्मलक्षणस्य तत्स्वभावतया-कार्यकारणस्वभावतया "तदाधिपत्य सिद्ध!" तस्य भगवद्बहुमानस्य महानुभावतयाऽधिकृतधर्महेतुषु प्रधानभावसिद्ध, "कारणे" सद्देशनायोग्यतायां "कार्यस्य" धर्मस्य "उपचाराद्" अध्यारोपाद्धर्म ददतीति धर्मदाः॥
टीका-(श्रीमतामहतां भगवतामुपयोगिता यविशिष्टः कारणैर्मन्यते तेषां सन्दर्शनं सविशेषोपयोगसम्पद द्वारा कार्य ते, तेऽर्हन्तो धर्मदा-धर्मदेशका:-धर्मनायका:-धर्मसारथय:धर्मवरचातुरन्तचक्रवत्तिनः इति तेषां विशिष्ट-प्रकाराऽवच्छिन्नोपयोगिता, सर्वेषां मुमुक्षणां आत्यन्तिककल्याणकारिणी, अस्ति अतः सर्वजनमात्रस्तुतियोग्या अर्हन्तो भवन्ति) तथाहि
___ सम्यग्देशनाविषयकयोग्यताकारकत्व (भगवद देशना) विषयबहुमानरूपानुग्रहस्य पूर्वं सम्पादनेन सद देशनाया यत्तात्त्विक-धर्मस्य दानं, आदिपदतः-आदिपदतश्च तात्विकधर्मस्योपदेशः, धर्मनायकत्वधर्मसारथित्वादि-प्रकारावच्छिन्नतया, परिपालनंतदादिप्रकारविशिष्टया, भावरूपपरमया, धर्मचक्रवत्तित्वरूपशाम्तृत्वसम्पदा समन्विता:सङगता (युक्ता) भगवन्त इति न्यायतः क्रमशः 'धम्मदयाणं' इत्यादि सूत्र-पंचकं प्रतिपादयति.
इह-धम्मदयाणमित्यादिसूत्रपंचकघटकधर्मपदेन चारित्ररूपधर्मस्य परिग्रहः, श्रावकधर्मसाधुधमौं इति द्विधा चारित्रधर्मो भवति, अणुव्रताद्युपासकप्रतिमागत-क्रियासाध्यः, साधुधर्मविषयकाभिलाषाशय आत्मधर्मविशेष श्रावकधर्मः, साधुधर्मस्तु सामायिकादिगत
160