________________
ललितविस्तरा-सटीका
पंचकेनाहतां भगवतां स्तुतिः कृताऽस्ति, तेषामर्हतामेवं 'अभयदान-चक्षुर्दान-मार्गदानशरणदान-बोधिदानरूपैः प्रकारैः (हेतुभिः) पूर्वोक्तकथितपरमार्थकरणरूपोपयोगस्य सिद्ध - रुपयोगसम्पद एव 'लोकोत्तमपदतो लोकप्रद्योतकरपर्यन्तानां पंचानां पदानां उपयोगसम्पद एव' हेतुसम्पद् = उपयोगसम्पदो हेतवः 'अभयदपदतो बोधिदपर्यन्तेषु पंचसु पदेषु' दर्शिता अतः, एषा पदपंचक वती पंचमी 'सामान्योपयोगसम्पदो हेतुसम्पद' ज्ञेया,
परमार्थसम्पादनरूपोपयोगः, ये हेतुभिर्व्यक्त सिद्धयति, तेषां हेतूनां नाम अभयदानादिकमस्ति, अर्थात् प्रथममभयदानादिकर्तारः सन्ति, तत एव भिन्नभिन्नेषु अधिकारेषु स्थितानां सर्वेषां भव्यजीवादीनां सर्वरीत्या, उपकारिणो भवन्ति, अर्थात् अभयादिदानद्वारैव लोकोत्तमत्वादिरूपोपयोग:-परमार्थकरणरूप उपयोगोऽस्ति, तथा चाभयदाद्याः सन्त्यत एव 'लोकोत्तम-लोकनाथ-लोकहित-लोकप्रदीप-लोकप्रद्योतकरा अर्हन्तः सन्ति,
लोकोत्तमत्वादिरूपोपयोगरूपपरोपकारकारिणो भवन्ति, नान्यथा अत एव स्तोतव्या एव कथ्यन्ते,
इति पंचमीसम्पत्समाप्ति सूचयति. अथ स्तोतव्यसम्पदः सविशेषोपयोगसम्पदः प्रौढतया प्ररूपणम्सद्दे शनायोग्यताविधाय्यनुग्रहसम्पादनादिना तात्त्विकधर्मदातृ -त्वादिप्रकारेण
परमशास्तृत्वसम्पत्समन्विता भगवन्त इति न्यायतः प्रतिपादयन्नाह
'धम्मदयाणमित्यादिसूत्रपंचकं' इह धर्मः, चारित्रधर्मः परिगृह्यते, स च श्रावकसाधुधर्मभेदेन द्विधा श्रावकधर्मोऽणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषाशयरूपः, आत्मपरिणामः, साधुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाभिव्यङ्गयसकलसत्त्वहिताशयाऽमृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावस्वरूपत्वाद्धर्मस्य, नायं भगवदनुग्रहमन्तरेण, विचित्रहेतुप्रभवत्वेऽपि महानुभावतयाऽस्यैव प्राधान्यात्, भवत्येवैतदासन्नस्य भगवति बहुमानः, ततो हि सद्देशनायोग्यता, ततः पुनरयं नियोगतः इत्युभयतत्स्वभावतया तदाधिपत्यसिद्धेः, कारणे कार्योपचाराद्धर्म ददतीति धर्मदाः २० ॥
पं.-"सद्देशनेत्यादि," इदमत्र हृदयम्-सद्देशनाया योग्यताविधायिनोऽनुग्रहस्य-स्वविषयबहुमानलक्षणस्य प्राक् सम्पादनेन, आविशब्दात् तदनु सद्देशनाया यत्तात्त्विकधर्मस्य दातृत्वम्, आदिशब्दात्
159