________________
ललितविस्तरा-सटीका ___अतिव्यामोहकारिक्लिष्टकर्मरसे नष्टे सति व्यावृत्त-पुरुषात्मविषयकपराजयरूपस्वव्यापारवत्यां (सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था, प्रकृतिः, सा जडा, सत्त्वगुणः प्रकाशादिकस्य साधनरूपः, रजोगुणः-जगतः कारणे या दुःखात्मता सा, तमोगुणः -या मोहात्मकता सा,) सत्त्वरजस्तमोरूपायां प्रकृतौ ज्ञानावरणादिकर्मप्रकृतौ वा धतिः-श्रद्धा, सुखा-विविदिषा-विज्ञप्तिरित्येता यथाक्रममभयाद्यपरनामानस्तत्त्वधर्मयोनयः पारमार्थिक-कुशलोत्पत्तिस्थानानि न भवन्ति, ततो धृत्यादिधर्मयोनीनां भवन्तीनामपि कुतोऽपि हेतोः प्रकृतेरनिवृत्ताधिकारत्वेन तात्त्विकधृत्यादिस्वभावाभावो वर्तते, इति एवमपि विज्ञप्तिश्च पंचमी धर्मयोनिः शब्दान्तरतो जिनोक्तधर्मप्राप्तिरूपो बोधि ज्ञेयो, बोधे विज्ञप्त्या कथमैक्यमिति चेत् कथ्यते प्रशमसंवेगादिभ्यो लक्षणेभ्योऽभेदः स्थानद्वये वर्तते, शब्दभेदो वर्तते परन्त्वर्थभेदो न, बोध्यभिन्नविज्ञप्तिप्राप्तिश्च पूर्वोक्तप्रपंचतो भगवद भ्य एवेति बोधिं ददतीति बोधिदाः ।। सांख्यपरिभाषा
जैनपरिभाषा सांख्यदर्शनानुगत भगवान् परिव्राजकगोपेन्द्रः
जैनाः (१) अनिवृत्ताधिकारप्रकृतिकः पुरुषः, अचरमपुद्गलपरावर्तवत्तिपुनर्बन्धकाद्या
जीवाः,
(२) निवृत्ताधिकारप्रकृतिकः पुरुषः, चरमपुद्गलपरावर्त वयं पुनर्बन्धकाद्या
आत्मानः, (३) धृतिः
अभयम् (४) श्रद्धा
चक्षुः (५) सुखा
मार्गः (६) विविदिषा
शरणम् (७) विज्ञप्तिः
बोधिः (८) पुरुषः
चेतनो जीवः (९) प्रकृतिः
| ज्ञानावरणादिकं कर्म ___ एवमर्हन्तो भगवन्तो केवलापेक्षया व्यापकत्वेन सर्वलोके उपकारिण उपयोगिनो भवन्त्यत्तः 'लोकोत्तम लोकनाथ-लोकहित-लोकप्रदीप-लोकप्रद्योतकररूप विशेषणरूपपद
158