________________
मलितविस्तरा-सटीका ब्दादिविषयविषयकेच्छायाः पराङमुखताकारिणी (२) लोकोत्तरभावरूपौदार्यादिरूपामृतस्यास्वादनरूपा (३) पूर्वपूर्वभताभयादिकार्य जन्यचक्ष रादिफलप्राप्तिपर्यन्तं फलानुकला (जनक) क्षयोपशमवृद्धिः (चक्ष रादिरूप स्वफलावारककर्मक्षयविशेषवृद्धिः) एव विवक्षितफलयोग्यता, योग्यतेयं क्षयोपशमवृद्धिरूपा, अपुनर्बन्धकं (पापं न तीव्रभावात् करोतीत्यादिलक्षणं) विना (विमुच्य) न भवति कथमिति चेत् अपुनर्बन्धकव्यक्तिभिन्नपुनर्बन्धको भवं बहुमन्यते, अतएवाभयादिपंचकं हेतुं स्वरूपं फलं चापेक्ष्य भावनीयमर्थात्, अभयादिपंचकमहद्भ्यो भगवद्भ्य एव प्राप्यतेऽभयादिपंचकप्राप्तिं प्रत्यहन्तो भगवन्त एव हेतुभूता नान्ये, अभयादिपंचकरूपं चेतसोऽवक्रगमनादि स्वरूपं, फलन्तु अभयादिकस्य चक्ष रादिकं विचारणीयमिति ।
लोकोत्तरभाधरूपौदार्यादेवर्णनम् =
(१) औदार्यम् = दानादिपरिणामे सङकोचरूपकृपणतां सन्त्यज्य, चित्तस्य विशालता, मातापितृकलाचार्य ज्ञातिवृद्धधर्मोपदेशकदीननिराधारादौ तथा दानादिविषयरूपकर्तव्ये, उचितप्रवृत्ती आत्यन्तिकचित्तस्य विशालता, हृदयस्योदारता ।
(२) दाक्षिण्य = परेषां कर्त्तव्यरूपकार्य करणे, उत्साहसभरशुभाशयः, गाम्भीर्यधैर्य साहाय्यविशिष्टं, मात्सर्य नाशक उत्तमोत्तम एष परिणामः ।
(३) पापजुगुप्सा = पापनिषेधकमुखहस्ताद्याकाराभिनयतोऽभिव्यङग्या, यथार्थनिर्मलचेतसा निरन्तरं भूतकालीनपापस्य निन्दारूपा, भविष्यत्कालीनपापचिन्तनाभावरूपा, अथवा कायप्रवृत्त्या पापपरीहाररूपा, वचसा पापवचनपरीहाररूपा, मानसपापचिन्तनाभावरूपा ज्ञेया ।
(४) निर्मलबोध : = शुश्रुषाभावजन्यशान्तरसप्रधानशास्त्राभ्यासादेः, परिचयेन श्रुतमय :- चिन्तामयो भावनामयो यो बोधः स 'निर्मलो बोधः' ।
(५) जनप्रियत्वं = जनतायाः प्रेमपात्रता, तत्सद्भावतो जनेष धर्मप्रशंसा प्रेरणादितो .. धर्मवृद्धिर्भवति. इत्यादिलोकोत्तरभावोऽर्थादलौकिकाद्भुतजागृतिविशेषः कथ्यते । परमतसंवादेनाऽपि कथ्यतेऽभयादिपंचकं जैनव्यतिरिक्त मुमुक्ष भिरिष्यते चैतद्, कथमित्याह-यथोक्तं-भगवता परिव्राजकेन गोपेन्द्रनाम्ना, तथाहि
151