________________
ललितविम्तरा-सटीका
अपुनर्बन्धक एव नान्यः पुनर्बन्धक: (यस्तीवभावेन पापं न करोति, चरमावर्त्तवर्ती भव्यो जीवः, भवाभिनंदिदोषरहितः, अतः एव शुक्लपाक्षिकः, अतः परं कदाचिदपि मिथ्यात्वमोहनीयकर्मादेरुत्कृष्ट-स्थिति वा रसं न भंस्यति ताशात्म-विशुद्धिमान जीवः अपुनर्बन्धक उच्यते, चरमावर्तादधिकपुद्गलावर्त्तवर्ती जीवः पुनर्बन्धकः कथ्यतेऽपुनर्बन्धकतो विपरीतः) यतः पुनर्बन्धके स्वरूप-स्व स्वभावाच्छेदेन, अभयादिपंचकस्याभावः, तात्त्विकभावरूपाभयादिपंचकस्य ताहशस्वभावोऽस्ति, यदपुनर्बन्धकात्मन्येव प्रादुर्भवति न पुनर्बन्धकात्मनि, तादृशशुद्धयशुद्ध योः सामर्थ्यमेव नान्यत्कारणमिति.
इतरेतरफलमेतदिति नियमः = पूर्वपूर्वस्य कारणता, उत्तरोत्तरस्य कार्यताबलेनेदं हाद सिद्धयति-(१) अभयरूपकारणसत्त्व एव चक्ष रूपकार्य सत्ता, अभयरूपकारणाभावे चक्ष रूपकार्य सत्ताऽभावः, चक्ष कार्य प्रति अभय कारणमिति, कार्यकारणभावः । (२) चक्ष रूपकारणसत्त्व एव मार्गरूपकार्य सत्ता, चक्ष रूपकारणाभावे मार्गरूपकार्याऽभावः, मार्गरूपफलं प्रति चक्ष ष्कारणम्, इति अन्वयव्यतिरेकभावप्रयुक्तः कार्यकारणभावो ज्ञेयः । (३) मार्गरूपकारणसत्त्व एव शरणरूपकार्य सत्ता, मार्गरूपकारणाभावे शरणरूपकार्याभावः, शरणरूपकार्य प्रति मार्गः कारणमिति कार्यकारणभावो ज्ञेयः । (४) शरणरूपकारणसत्त्व एव बोधिरूपकार्य सत्ता, शरणरूपकारणाभावे बोधिरूपकार्याभावः, बोधिकार्य प्रति शरणं कारणमिति कार्यकारणभावो ज्ञेयः । योऽपुनर्बधको नास्त्यदिनीहशस्तस्य-इतरेतराफलस्य-परस्परकार्यकारणभावरहितेऽभयादिपंचके तत्त्वरूपाभयादिभावस्य घटनाभाव (भाव-सत्यरूपाभयादिधर्माणां अभाव एव) एवं च पूर्वपूर्वस्योत्तरोत्तरफलरूपस्वभावः, तत्त्वभूताभयादिपंचकस्याऽस्ति, अत एव मिथ्यात्त्वादिगतोत्कृष्टस्थिते: 'आ'-इति प्रारभ्य शास्त्रप्रसिद्ध-ग्रन्थिस्थानपर्यन्तं बहुशो जायमाना एतेऽभयादयोऽपि, भावरूपाऽभयादिरूपतां नैव लभन्ते, कथमिति चेत्कथ्यते विवक्षितफलस्य योग्यताया अभावो वर्ततेऽर्थात् सर्वथा, अतत्त्वभूत-द्रव्यरूपाऽभयादिपंचके विवक्षितफलरूपकार्य जननशक्तियोग्यताया अभावोऽस्ति, विवक्षितं फलमभयस्य चक्ष :, मार्गस्य शरणं, शरणस्य बोधिरितिरूपं तज्ज ननस्वभावाऽभावोऽस्ति.
तत्त्वरूपाऽभयादिपंचकगतचक्ष रादिविवक्षितफलजनकस्वभावरूपयोग्यता का ? तत्कथ्यते-चक्षु रादिविवक्षितफलजननस्वभावरूपयोग्यताऽर्थात् (१) विषसडशश
156