________________
ललितविस्तरा-सटीका
ग्रन्थिस्तस्य भेदतः पश्चानुपूर्व्या (प्रशमादिगुणानां लाभक्रमः-उत्पत्तिक्रमः, एषामुपन्यासः प्राधान्यतः) प्रशमसंवेगानुकम्पाऽऽस्तिक्य – अभिव्यक्ति-प्राकट्यलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, विज्ञप्तिरित्यर्थः ।
__ (लाभक्रम :- (१) प्रथमं तावदास्तिक्यमुत्पद्यते, (२) ततः, अनुकम्पा भवति, (३) ततो निर्वेदः प्राप्यते, (४) ततः संवेगो लभ्यते, (५) ततः प्रशमो भवति, इत्येवं पश्चानुपूर्व्या प्रशमादिगुणानां लाभक्रमः ,)
प्राधान्यतः प्रशमादिगुणानामुपन्यासः ।
(१) प्रशमः = सापराधे पुरुषेऽपि मनसा सर्वदाऽशुभचिन्तनाभावः, क्रोधादिकण्डूयनस्य विषयतृष्णायाश्च शमनम्, अतत्त्वाभिनिवेशशान्तिः ।
(२) संवेग : = देवमानवसत्कं पौद्गलिकसुखमात्रं दुःखत्वेन गणनीयं यतस्तत् क्षणिक पराधीनं, असारं दारुणदुःखानुबन्धि वर्त्तते, मोक्षस्यैकमात्रं सौख्यं अक्षय्यत्वेनेच्छनीयं, अनन्तं स्वाधीनं वर्तते ।
(३) निर्वेदः = संसारिपरिवार प्रति निर्वेदः (अरुचिः) कर्त्तव्यः, यतः स्वार्थगतत्वेन सुखदुःखयो मध्ये भागं ते न गृहणन्ति, तेषु सुखदान-दुःखविदारण-शक्तिस्त्येिव, जन्मजरामरणगर्भावासाद्यानेकवेदनाप्राचुर्यत्वेन संसारः, आत्मपक्षे न कमपि गुणं करोति ततस्तं निर्गुणं निश्चित्य संसारचारकान्मुक्त्यर्थमुत्कटोत्कण्ठा धारणयीयैव ।
(४) अनुकम्पा = दीनदुःखिरोगाक्रान्तादिषु जीवेषु तन्निवारणाय परमेच्छा कार्ये ति द्रव्यदया, भावदया तु धर्मरहितजीवस्तु धर्मस्यासाधनात् दुर्गतौ गमिष्यन्तीति चिन्तया धर्मरहिते धर्मयोजनस्थिरीकरणादि कार्यम् ।
(५) आस्तिक्यं = यज्जिनैर्भगवद्भिः कथितं तदेव परमं चरमं सत्यं, नान्यथा कदाचिद्भवतीति, अस्थिमज्जावद् श्रद्धारङगोऽत्यन्त-दृढतमो धार्यः ।
अभयादिपञ्चकस्याधिकारिणश्चानधिकारणो वर्णनम्
एतद आत्मधर्मविशेषरूपाभयादिपंचकमपि (आस्तां प्रस्तुतो बोधिः, पंचकमपीत्यपीत्यर्थः) पूर्वोदितस्यापुनर्बन्धकस्य भवति, अर्थात्, अभयादिपंचकस्य अधिकारी
155