________________
ललितविस्तरा-सटीका
... कुत एतदित्याह-"अनीशस्य" इतरेतराफलस्य पंचकस्य "तत्त्वायोगात्" तत्त्वस्य अभयादिभावस्य-अयोगाद्-अघटनात् । एतदेव भावयति-"नहि" नैव "अचक्षुष्फलं" नास्ति चक्षुः फलमस्य तत्तथाऽभयं "चक्षुः" पूर्वोक्तरूपम् "अमार्गफलं" मार्गलक्षणफलरहितमिति, आदिशब्दान्मागर्गोऽशरणफलः, शरणं चाधिफलमिति । यदि नामवं ततः किमित्याह-“एवं च" इतरेतरफलतायां च सत्याम् "उत्कृष्टस्थिते." मिथ्यात्वादिगताया "आ" इति प्रारभ्य “ग्रन्थिप्राप्ति समयसिद्धग्रन्थिस्थानं यावद् “एते" अभयादयो "भवन्तोऽपि" जायमाना अपि "असकृद्" अनेकशो "न" नैव "तद्रूपतां" भावरूपाभयादिरूपताम् "आसादयन्ति' लभन्ते, कुत इत्याह-"विवक्षितफलयोग्यतावैकल्यात्" विवक्षितं फलमभयस्य चक्षुः, चक्षुषो मार्ग इत्यादिरूपं तज्जननस्वभावाभावात्, योग्यतामेवाह
_ "योग्यता च" प्रागुपन्यस्ता अभयादीनाम् "आफलप्राप्तेः" चक्षुरादिफलप्राप्ति यावत् “तथा" फलानुकूला "क्षयोपशमवृद्धिः" स्वावारककर्मक्षयविशेषवृद्धिः "लोकोत्तरभागमृतास्वादरूपा" लोकोतरभावाः विहितौदार्यदाक्षिण्यादय स्त एवामृतं-सुधा तदास्वादरूपा, अत एव "वैमुख्यकारिणी" विमुखताहेतुः, विषय विषाभिलाषस्य" विषाकारविषयवांछारूपस्येति, ततः किमित्याह-"नच" नैव "इयम्" उक्तरूपा क्षयोपशमवृद्धिः "अपुनर्बन्धक" 'पापं न तोवभावात्करोती'त्यादिलक्षणम् "अन्तरेण" विनाऽन्यस्य भवबहुमानित्वात् , ततः किमित्याह-"इति" एतद् "भावनीयं” यदुत पंचकमप्येतदपुनर्बन्धकस्येति हेत स्वरूपं फलं चापेक्ष्य विचारणीयं, परमतसंवादेनाप्याह "इष्यते चैतद्” अभयादिकम् "अपरैरपि" जैनव्यतिरिक्त मुमुक्षुभिः, कथमित्याह-“यथोक्त" यस्मादुक्त
"भगवद्गोपेन्द्रेण" भगवता परिव्राजकेन गोपेन्द्रनाम्ना, उक्तमेव दर्शयति-"निवृत्ताधिकारायां"व्यावत्तपूरुषाभिभवलक्षणस्वव्यापारायां "प्रकृतौ" सत्त्वरजस्तमोलक्षणायां ज्ञानावरणादिकम्मणीत्यथः, धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरित्येता यथाक्रममभयाद्यपरनामानस्तत्त्वधर्मयोनयः-पारमाथि ककुशलोत्पत्तिस्थानानि भवन्तीति, व्यवच्छेद्यमाह-"नानिवृत्ताधिकारायां" प्रकृताविति गम्यते, कुत इत्याह-- "भवन्तीन,मपि" धृत्यादिधर्मयोनीनां कुतोऽपि हेतोः, प्रकृतेरनिवृत्ताधिकारत्वेन "तद्रूपताऽयोगात्" तात्त्विक धृत्यादिस्वभावाभावाद् "इतिः" परोक्तसमाप्त्यर्थः, एवमपि किमित्याह"विज्ञप्तिश्च" पंचमी धर्मयोनि: "बोधिः" जिनोक्तधर्मप्राप्तिः, कुत इत्याह- .
"प्रशमादिल् क्षणाभेदात्" प्रशमसंवेगादिभ्यो लक्षणेभ्योऽभेदाद-अव्यतिरेका द्विज्ञप्तेः । टीका-अथ शक्रस्तवस्य 'बोधिद' रूपैकोनविंशतितमपदस्य व्याख्यानम् ।
यथाऽर्हन्तो भगवन्तः 'अभयद-चक्षर्द-मार्गद-शरणदा' भवन्ति तथा 'बोधिदा' भवन्त्येव, बोधिदपदघटितबोधिं विवेचयति तथाहि
को बोधिरित्युक्त कथयति. जिनप्रणीतधर्मप्राप्तिरेव बोधिः,
सर्वज्ञप्ररूपितधर्मलाभः, यथाप्रवृत्तापूर्वाऽनिवृत्तिकरणत्रयरूपव्यापारेण (पुरुषार्थ -वोर्य-अध्यवसायविशेषण) अभिव्य जकेनाभिव्यङग्य -गम्य अभिन्नपूर्वो (पूर्वमभिन्नो) यो
154