________________
मलितविस्तरा-सटीका
अर्थात् तत्वचिन्तायां सु ज्ञानाभावरूपं ज्ञानं, एवं च पूर्वोक्त विविदिषाया अभावे विषयविषतृष्णाभंजकं तत्त्वज्ञानं न भवति, विषयतृष्णानाशकत्वेन तत्त्वज्ञान-जनकत्वेन तत्त्वगोचरशुश्र षादिप्रज्ञागुणाष्टकजनकत्वेन विविदिषापर्यायकं तच्च शरणं, अभयचक्षुर्गिबद भगवद भ्य एव भवतीति ।
'शरणं ददतीति शरणदाः' भगवन्तो भवन्तीत्यष्टादशपदं समाप्तमिति ।
तथा 'बोहिदयाणं,' इह बोधिः-जिनप्रणीतधर्माप्राप्तिः, इयं पुनर्यथाप्रवृत्तापूर्वानिवृत्तिकरणत्रयव्यापाराभिव्यङ्गयमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिवेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, विज्ञप्तिरित्यर्थः,
पञ्चकमप्येतदपुनर्बन्धकस्य यथोदितस्य, अस्य पुनर्बन्धके स्वरूपेणाभावात् ।
इतरेतरफलमेतदिति नियमः, अनीहशस्य तत्त्वायोगात, न ह्यचक्षुष्फलमभयं, चक्षुर्वाऽमार्गफलमित्यादि, एवं चोत्कृष्टस्थितेरा प्रन्थिप्राप्तिमेते भवन्तोऽप्यसकृन्न तद्रूपतामासादयन्ति, विवक्षितफलयोग्यतावैकलयात् ।
योग्यता चाफलप्राप्तेस्तथाक्षयोपशमवृद्धिः, लोकोत्तरभावामृतास्वादरूपा वैमुख्यकारिणी विषयविषाभिलाषस्य, न चेयमपुनर्बन्धकमन्तरेणेति भावनीयं, इष्यते चैतदपरैरपि मुमुक्षुभिः, यथोक्त भगवद्गोपेन्द्रेण-"निवृत्ताधिकारायां प्रकृती धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्वधर्मयोनयः, नानिवृत्ताधिकारायां, भवन्तीनामपि तद्रूपताऽयोगादिति" विज्ञप्तिश्च बोधिः, ॥१९॥
एवमभयदानचक्षुर्दानमार्गवानशरणदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदिति ॥ ५ ॥
___ प्रशमादिलक्षणामेवात्, एतत्प्राप्तिश्च यथोक्तप्रपंचतो भगवद्भय एवेति बोधि ददतीति बोधिदाः ।
पं.-"बोहिदयाण" पंचकमप्यभयचक्षुरादिरूपम्, आस्ता प्रस्तुतो बोधिः, “एतद् अनन्तरोक्तम् "अपुनर्बन्धकस्य" उक्तलक्षणस्य, कुत इत्याह-“यथोदितस्य" उक्त निर्वचनस्य "अस्य" पंचकस्य "पुनर्बन्धके" विलक्षणे "स्वरूपेण" स्वस्वभावेन "अभावाद' । अस्यव हेतोः सिद्धयर्थमाह___ "इतरेतरफलं" इतरस्य-पूर्वपूर्वस्य इतरद-उसरोत्तरं फलं-कार्यम् “एतत्" पंचकम् “इति" एष “नियमो' व्यवस्था,
153